प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम्। प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति
गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप। ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन्
तत उत्पत्य तरसा दह्यमानतटादुभौ। दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि
अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ। स्वपुरं पुनरायातौ समुद्र परिखां नृप
सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ। बलमाकृष्य सुमहन्मगधान्मागधो ययौ
आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम्। ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम्
भगवानपि गोविन्द उपयेमे कुरूद्वह। वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे
प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान्। पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव
श्रीराजोवाच। भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम्। राक्षसेन विधानेन उपयेम इति श्रुतम्
भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः। यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत्
ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः। को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः
श्रीबादरायणिरुवाच। राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान्। तस्य पञ्चाभवन्पुत्राः कन्यैका च वरानना
रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः। रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती
सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः। गृहागतैर्गीयमानास्तं मेने सदृशं पतिम्
तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम्। कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे
बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप। ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत
तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम्। विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम्
द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः। अपश्यदाद्यं पुरुषमासीनं काञ्चनासने
दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात्। उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः
तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः। पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत
कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः। वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा
सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित्। अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक्
असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः। अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः
विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान्। निरहङ्कारिणः शान्तान्नमस्ये शिरसा सकृत्
कच्चिद्वः कुशलं ब्रह्मन्राजतो यस्य हि प्रजाः। सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः
यतस्त्वमागतो दुर्गं निस्तीर्येह यदिच्छया। सर्वं नो ब्रूह्यगुह्यं चेत्किं कार्यं करवाम ते
एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना। लीलागृहीतदेहेन तस्मै सर्वमवर्णयत्
श्रीरुक्मिण्युवाच। श्रुत्वा गुणान्भुवनसुन्दर शृण्वतां ते। निर्विश्य कर्णविवरैर्हरतोऽङ्गतापम्। रूपं दृशां दृशिमतामखिलार्थलाभं। त्वय्यच्युताविशति चित्तमपत्रपं मे
का त्वा मुकुन्द महती कुलशीलरूप। विद्यावयोद्रविणधामभिरात्मतुल्यम्। धीरा पतिं कुलवती न वृणीत कन्या। काले नृसिंह नरलोकमनोऽभिरामम्
तन्मे भवान्खलु वृतः पतिरङ्ग जायाम्। आत्मार्पितश्च भवतोऽत्र विभो विधेहि। मा वीरभागमभिमर्शतु चैद्य आराद्। गोमायुवन्मृगपतेर्बलिमम्बुजाक्ष