बदर्याश्रममासाद्य नरनारायणालयम्। सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम्
भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम्। हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम्
नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः। आजगाम जरासन्धस्त्रयोविंशत्यनीकपः
विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ। मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम्
विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत्। पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम्
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली। अन्वधावद्रथानीकैरीशयोरप्रमाणवित्
प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम्। प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति
गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप। ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन्
तत उत्पत्य तरसा दह्यमानतटादुभौ। दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि
अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ। स्वपुरं पुनरायातौ समुद्र परिखां नृप
सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ। बलमाकृष्य सुमहन्मगधान्मागधो ययौ
आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम्। ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम्
भगवानपि गोविन्द उपयेमे कुरूद्वह। वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे
प्रमथ्य तरसा राज्ञः शाल्वादींश्चैद्यपक्षगान्। पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधामिव
श्रीराजोवाच। भगवान्भीष्मकसुतां रुक्मिणीं रुचिराननाम्। राक्षसेन विधानेन उपयेम इति श्रुतम्
भगवन्श्रोतुमिच्छामि कृष्णस्यामिततेजसः। यथा मागधशाल्वादीन्जित्वा कन्यामुपाहरत्
ब्रह्मन्कृष्णकथाः पुण्या माध्वीर्लोकमलापहाः। को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः
श्रीबादरायणिरुवाच। राजासीद्भीष्मको नाम विदर्भाधिपतिर्महान्। तस्य पञ्चाभवन्पुत्राः कन्यैका च वरानना
रुक्म्यग्रजो रुक्मरथो रुक्मबाहुरनन्तरः। रुक्मकेशो रुक्ममाली रुक्मिण्येषा स्वसा सती
सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः। गृहागतैर्गीयमानास्तं मेने सदृशं पतिम्
तां बुद्धिलक्षणौदार्य रूपशीलगुणाश्रयाम्। कृष्णश्च सदृशीं भार्यां समुद्वोढुं मनो दधे
बन्धूनामिच्छतां दातुं कृष्णाय भगिनीं नृप। ततो निवार्य कृष्णद्विड्रुक्मी चैद्यममन्यत
तदवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम्। विचिन्त्याप्तं द्विजं कञ्चित्कृष्णाय प्राहिणोद्द्रुतम्
द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः। अपश्यदाद्यं पुरुषमासीनं काञ्चनासने
दृष्ट्वा ब्रह्मण्यदेवस्तमवरुह्य निजासनात्। उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः
तं भुक्तवन्तं विश्रान्तमुपगम्य सतां गतिः। पाणिनाभिमृशन्पादावव्यग्रस्तमपृच्छत
कच्चिद्द्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः। वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा
सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित्। अहीयमानः स्वद्धर्मात्स ह्यस्याखिलकामधुक्
असन्तुष्टोऽसकृल्लोकानाप्नोत्यपि सुरेश्वरः। अकिञ्चनोऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः
विप्रान्स्वलाभसन्तुष्टान्साधून्भूतसुहृत्तमान्। निरहङ्कारिणः शान्तान्नमस्ये शिरसा सकृत्