पुरा रथैर्हेमपरिष्कृतैश्चरन्। मतंगजैर्वा नरदेवसंज्ञितः। स एव कालेन दुरत्ययेन ते। कलेवरो विट्कृमिभस्मसंज्ञितः
निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः। गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते
करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षयाददत्। पुनश्च भूयासमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते
भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः। सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः
मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया। यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः
न कामयेऽन्यं तव पादसेवनादकिञ्चनप्रार्थ्यतमाद्वरं विभो। आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम्
तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः। निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्यहम्
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर्। अवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित्। शरणद समुपेतस्त्वत्पदाब्जं परात्मन्। अभयमृतमशोकं पाहि मापन्नमीश
श्रीभगवानुवाच। सार्वभौम महाराज मतिस्ते विमलोर्जिता। वरैः प्रलोभितस्यापि न कामैर्विहता यतः
प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत्। न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित्
युञ्जानानामभक्तानां प्राणायामादिभिर्मनः। अक्षीणवासनं राजन्दृश्यते पुनरुत्थितम्
विचरस्व महीं कामं मय्यावेशितमानसः। अस्त्वेवं नित्यदा तुभ्यं भक्तिर्मय्यनपायिनी
क्षात्रधर्मस्थितो जन्तून्न्यवधीर्मृगयादिभिः। समाहितस्तत्तपसा जह्यघं मदुपाश्रितः
जन्मन्यनन्तरे राजन्सर्वभूतसुहृत्तमः। भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम्
अथ द्विपञ्चाशत्तमोऽध्यायः 10.52 श्रीशुक उवाच। इत्थं सोऽनुग्रहीतोऽङ्ग कृष्णेनेक्ष्वाकु नन्दनः। तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात्
संवीक्ष्य क्षुल्लकान्मर्त्यान्पशून्वीरुद्वनस्पतीन्। मत्वा कलियुगं प्राप्तं जगाम दिशमुत्तराम्
तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः। समाधाय मनः कृष्णे प्राविशद्गन्धमादनम्
बदर्याश्रममासाद्य नरनारायणालयम्। सर्वद्वन्द्वसहः शान्तस्तपसाराधयद्धरिम्
भगवान्पुनराव्रज्य पुरीं यवनवेष्टिताम्। हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम्
नीयमाने धने गोभिर्नृभिश्चाच्युतचोदितैः। आजगाम जरासन्धस्त्रयोविंशत्यनीकपः
विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ। मनुष्यचेष्टामापन्नौ राजन्दुद्रुवतुर्द्रुतम्
विहाय वित्तं प्रचुरमभीतौ भीरुभीतवत्। पद्भ्यां पलाशाभ्यां चेलतुर्बहुयोजनम्
पलायमानौ तौ दृष्ट्वा मागधः प्रहसन्बली। अन्वधावद्रथानीकैरीशयोरप्रमाणवित्
प्रद्रुत्य दूरं संश्रान्तौ तुङ्गमारुहतां गिरिम्। प्रवर्षणाख्यं भगवान्नित्यदा यत्र वर्षति
गिरौ निलीनावाज्ञाय नाधिगम्य पदं नृप। ददाह गिरिमेधोभिः समन्तादग्निमुत्सृजन्
तत उत्पत्य तरसा दह्यमानतटादुभौ। दशैकयोजनात्तुङ्गान्निपेततुरधो भुवि
अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ। स्वपुरं पुनरायातौ समुद्र परिखां नृप
सोऽपि दग्धाविति मृषा मन्वानो बलकेशवौ। बलमाकृष्य सुमहन्मगधान्मागधो ययौ
आनर्ताधिपतिः श्रीमान्रैवतो रैवतीं सुताम्। ब्रह्मणा चोदितः प्रादाद्बलायेति पुरोदितम्
भगवानपि गोविन्द उपयेमे कुरूद्वह। वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे