शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव। स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते
वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः। मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो
चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रियः। शयेऽस्मिन्विजने कामं केनाप्युत्थापितोऽधुना
सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना। अनन्तरं भवान्श्रीमांल्लक्षितोऽमित्रशासनः
तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः। हतौजसा महाभाग माननीयोऽसि देहिनाम्
एवं सम्भाषितो राज्ञा भगवान्भूतभावनः। प्रत्याह प्रहसन्वाण्या मेघनादगभीरया
श्रीभगवानुवाच। जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः। न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि
क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः। गुणकर्माभिधानानि न मे जन्मानि कर्हिचित्
कालत्रयोपपन्नानि जन्मकर्माणि मे नृप। अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः
तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम। विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये
भूमेर्भारायमाणानामसुराणां क्षयाय च। अवतीर्णो यदुकुले गृह आनकदुन्दुभेः। वदन्ति वासुदेवेति वसुदेवसुतं हि माम्
कालनेमिर्हतः कंसः प्रलम्बाद्याश्च सद्द्विषः। अयं च यवनो दग्धो राजंस्ते तिग्मचक्षुषा
सोऽहं तवानुग्रहार्थं गुहामेतामुपागतः। प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः
वरान्वृणीष्व राजर्षे सर्वान्कामान्ददामि ते। मां प्रसन्नो जनः कश्चिन्न भूयोऽर्हति शोचितुम्
श्रीशुक उवाच। इत्युक्तस्तं प्रणम्याह मुचुकुन्दो मुदान्वितः। ज्ञात्वा नारायणं देवं गर्गवाक्यमनुस्मरन्
श्रीमुचुकुन्द उवाच। विमोहितोऽयं जन ईश मायया त्वदीयया त्वां न भजत्यनर्थदृक्। सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित्पुरुषश्च वञ्चितः
लब्ध्वा जनो दुर्लभमत्र मानुषं। कथञ्चिदव्यङ्गमयत्नतोऽनघ। पादारविन्दं न भजत्यसन्मतिर्। गृहान्धकूपे पतितो यथा पशुः
ममैष कालोऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः। मर्त्यात्मबुद्धेः सुतदारकोशभूष्वासज्जमानस्य दुरन्तचिन्तया
कलेवरेऽस्मिन्घटकुड्यसन्निभे। निरूढमानो नरदेव इत्यहम्। वृतो रथेभाश्वपदात्यनीकपैर्। गां पर्यटंस्त्वागणयन्सुदुर्मदः
प्रमत्तमुच्चैरितिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम्। त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानोऽहिरिवाखुमन्तकः
पुरा रथैर्हेमपरिष्कृतैश्चरन्। मतंगजैर्वा नरदेवसंज्ञितः। स एव कालेन दुरत्ययेन ते। कलेवरो विट्कृमिभस्मसंज्ञितः
निर्जित्य दिक्चक्रमभूतविग्रहो वरासनस्थः समराजवन्दितः। गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते
करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस्तदपेक्षयाददत्। पुनश्च भूयासमहं स्वराडिति प्रवृद्धतर्षो न सुखाय कल्पते
भवापवर्गो भ्रमतो यदा भवेज्जनस्य तर्ह्यच्युत सत्समागमः। सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः
मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया। यः प्रार्थ्यते साधुभिरेकचर्यया वनं विविक्षद्भिरखण्डभूमिपैः
न कामयेऽन्यं तव पादसेवनादकिञ्चनप्रार्थ्यतमाद्वरं विभो। आराध्य कस्त्वां ह्यपवर्गदं हरे वृणीत आर्यो वरमात्मबन्धनम्
तस्माद्विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः। निरञ्जनं निर्गुणमद्वयं परं त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्यहम्
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर्। अवितृषषडमित्रोऽलब्धशान्तिः कथञ्चित्। शरणद समुपेतस्त्वत्पदाब्जं परात्मन्। अभयमृतमशोकं पाहि मापन्नमीश
श्रीभगवानुवाच। सार्वभौम महाराज मतिस्ते विमलोर्जिता। वरैः प्रलोभितस्यापि न कामैर्विहता यतः
प्रलोभितो वरैर्यत्त्वमप्रमादाय विद्धि तत्। न धीरेकान्तभक्तानामाशीर्भिर्भिद्यते क्वचित्