नन्वसौ दूरमानीय शेते मामिह साधुवत्। इति मत्वाच्युतं मूढस्तं पदा समताडयत्
स उत्थाय चिरं सुप्तः शनैरुन्मील्य लोचने। दिशो विलोकयन्पार्श्वे तमद्राक्षीदवस्थितम्
स तावत्तस्य रुष्टस्य दृष्टिपातेन भारत। देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात्
श्रीराजोवाच। को नाम स पुमान्ब्रह्मन्कस्य किं वीर्य एव च। कस्माद्गुहां गतः शिष्ये किं तेजो यवनार्दनः
श्रीशुक उवाच। स इक्ष्वाकुकुले जातो मान्धातृतनयो महान्। मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः
स याचितः सुरगणैरिन्द्राद्यैरात्मरक्षणे। असुरेभ्यः परित्रस्तैस्तद्रक्षां सोऽकरोच्चिरम्
लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दमथाब्रुवन्। राजन्विरमतां कृच्छ्राद्भवान्नः परिपालनात्
नरलोकं परित्यज्य राज्यं निहतकण्टकम्। अस्मान्पालयतो वीर कामास्ते सर्व उज्झिताः
सुता महिष्यो भवतो ज्ञातयोऽमात्यमन्त्रिणः। प्रजाश्च तुल्यकालीना नाधुना सन्ति कालिताः
कालो बलीयान्बलिनां भगवानीश्वरोऽव्ययः। प्रजाः कालयते क्रीडन्पशुपालो यथा पशून्
वरं वृणीष्व भद्रं ते ऋते कैवल्यमद्य नः। एक एवेश्वरस्तस्य भगवान्विष्णुरव्ययः
एवमुक्तः स वै देवानभिवन्द्य महायशाः। अशयिष्ट गुहाविष्टो निद्रया देवदत्तया
यवने भस्मसान्नीते भगवान्सात्वतर्षभः। आत्मानं दर्शयामास मुचुकुन्दाय धीमते
तमालोक्य घनश्यामं पीतकौशेयवाससम्। श्रीवत्सवक्षसं भ्राजत्कौस्तुभेन विराजितम्
चतुर्भुजं रोचमानं वैजयन्त्या च मालया। चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम्
प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम्। अपीच्यवयसं मत्तमृगेन्द्रोदारविक्रमम्
पर्यपृच्छन्महाबुद्धिस्तेजसा तस्य धर्षितः। शङ्कितः शनकै राजा दुर्धर्षमिव तेजसा
श्रीमुचुकुन्द उवाच। को भवानिह सम्प्राप्तो विपिने गिरिगह्वरे। पद्भ्यां पद्मपलाशाभ्यां विचरस्युरुकण्टके
किं स्वित्तेजस्विनां तेजो भगवान्वा विभावसुः। सूर्यः सोमो महेन्द्रो वा लोकपालो परोऽपि वा
मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम्। यद्बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा
शुश्रूषतामव्यलीकमस्माकं नरपुङ्गव। स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते
वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः। मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो
चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रियः। शयेऽस्मिन्विजने कामं केनाप्युत्थापितोऽधुना
सोऽपि भस्मीकृतो नूनमात्मीयेनैव पाप्मना। अनन्तरं भवान्श्रीमांल्लक्षितोऽमित्रशासनः
तेजसा तेऽविषह्येण भूरि द्रष्टुं न शक्नुमः। हतौजसा महाभाग माननीयोऽसि देहिनाम्
एवं सम्भाषितो राज्ञा भगवान्भूतभावनः। प्रत्याह प्रहसन्वाण्या मेघनादगभीरया
श्रीभगवानुवाच। जन्मकर्माभिधानानि सन्ति मेऽङ्ग सहस्रशः। न शक्यन्तेऽनुसङ्ख्यातुमनन्तत्वान्मयापि हि
क्वचिद्रजांसि विममे पार्थिवान्युरुजन्मभिः। गुणकर्माभिधानानि न मे जन्मानि कर्हिचित्
कालत्रयोपपन्नानि जन्मकर्माणि मे नृप। अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः
तथाप्यद्यतनान्यङ्ग शृणुष्व गदतो मम। विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये