शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः। वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ
सिक्तमार्गां हृष्टजनां पताकाभिरभ्यलङ्कृताम्। निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम्
निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः। निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः
आयोधनगतं वित्तमनन्तं वीरभूषणम्। यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः
एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः। युयुधे मागधो राजा यदुभिः कृष्णपालितैः
अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा। हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृपः
अष्टादशम सङ्ग्राम आगामिनि तदन्तरा। नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत
रुरोध मथुरामेत्य तिसृभिर्म्लेच्छकोटिभिः। नृलोके चाप्रतिद्वन्द्वो वृष्णीन्श्रुत्वात्मसम्मितान्
तं दृष्ट्वाचिन्तयत्कृष्णः सङ्कर्षण सहायवान्। अहो यदूनां वृजिनं प्राप्तं ह्युभयतो महत्
यवनोऽयं निरुन्धेऽस्मानद्य तावन्महाबलः। मागधोऽप्यद्य वा श्वो वा परश्वो वागमिष्यति
आवयोः युध्यतोरस्य यद्यागन्ता जरासुतः। बन्धून्हनिष्यत्यथ वा नेष्यते स्वपुरं बली
तस्मादद्य विधास्यामो दुर्गं द्विपददुर्गमम्। तत्र ज्ञातीन्समाधाय यवनं घातयामहे
इति सम्मन्त्र्य भगवान्दुर्गं द्वादशयोजनम्। अन्तःसमुद्रे नगरं कृत्स्नाद्भुतमचीकरत्
दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम्। रथ्याचत्वरवीथीभिर्यथावास्तु विनिर्मितम्
सुरद्रुमलतोद्यान विचित्रोपवनान्वितम्। हेमशृङ्गैर्दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः
राजतारकुटैः कोष्ठैर्हेमकुम्भैरलङ्कृतैः। रत्नकूतैर्गृहैर्हेमैर्महामारकतस्थलैः
वास्तोष्पतीनां च गृहैर्वल्लभीभिश्च निर्मितम्। चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत्
सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद्धरेः। यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर्न युज्यते
श्यामैकवर्णान्वरुणो हयान्शुक्लान्मनोजवान्। अष्टौ निधिपतिः कोशान्लोकपालो निजोदयान्
यद्यद्भगवता दत्तमाधिपत्यं स्वसिद्धये। सर्वं प्रत्यर्पयामासुर्हरौ भूमिगते नृप
तत्र योगप्रभावेन नीत्वा सर्वजनं हरिः। प्रजापालेन रामेण कृष्णः समनुमन्त्रितः। निर्जगाम पुरद्वारात्पद्ममाली निरायुधः
श्रीशुक उवाच। तं विलोक्य विनिष्क्रान्तमुज्जिहानमिवोडुपम्। दर्शनीयतमं श्यामं पीतकौशेयवाससम्
श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम्। पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम्
नित्यप्रमुदितं श्रीमत्सुकपोलं शुचिस्मितम्। मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम्
वासुदेवो ह्ययमिति पुमान्श्रीवत्सलाञ्छनः। चतुर्भुजोऽरविन्दाक्षो वनमाल्यतिसुन्दरः
लक्षणैर्नारदप्रोक्तैर्नान्यो भवितुमर्हति। निरायुधश्चलन्पद्भ्यां योत्स्येऽनेन निरायुधः
इति निश्चित्य यवनः प्राद्रवन्तं पराङ्मुखम्। अन्वधावज्जिघृक्षुस्तं दुरापमपि योगिनाम्
हस्तप्राप्तमिवात्मानं हरिणा स पदे पदे। नीतो दर्शयता दूरं यवनेशोऽद्रिकन्दरम्
पलायनं यदुकुले जातस्य तव नोचितम्। इति क्षिपन्ननुगतो नैनं प्रापाहताशुभः
एवं क्षिप्तोऽपि भगवान्प्राविशद्गिरिकन्दरम्। सोऽपि प्रविष्टस्तत्रान्यं शयानं ददृशे नरम्