एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत्। त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु
एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात्। निर्जग्मतुः स्वायुधाढ्य बलेनाल्पीयसा वृतौ
शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः। ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः
तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम। न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन्
तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह। हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि
श्रीभगवानुवाच। न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम्। न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः
श्रीशुक उवाच। जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसाऽऽवृणोत्। ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः
सुपर्णतालध्वजचिह्नितौ रथाव्। अलक्षयन्त्यो हरिरामयोर्मृधे। स्त्रियः पुराट्टालकहर्म्यगोपुरं। समाश्रिताः सम्मुमुहुः शुचार्दितः
हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम्। स्वसैन्यमालोक्य सुरासुरार्चितं व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम्
गृह्णन्निशङ्गादथ सन्दधच्छरान्। विकृष्य मुञ्चन्शितबाणपूगान्। निघ्नन्रथान्कुञ्जरवाजिपत्तीन्। निरन्तरं यद्वदलातचक्रम्
निर्भिन्नकुम्भाः करिणो निपेतुरनेकशोऽश्वाः शरवृक्णकन्धराः। रथा हताश्वध्वजसूतनायकाः पदायतश्छिन्नभुजोरुकन्धराः
सञ्छिद्यमानद्विपदेभवाजिनामङ्गप्रसूताः शतशोऽसृगापगाः। भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहय ग्रहाकुलाः
करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः। अच्छूरिकावर्तभयानका महा मणिप्रवेकाभरणाश्मशर्कराः
प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षकरीः परस्परम्। विनिघ्नतारीन्मुषलेन दुर्मदान्सङ्कर्षणेनापरीमेयतेजसा
बलं तदङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्र पालितम्। क्षयं प्रणीतं वसुदेवपुत्रयोर्विक्रीडितं तज्जगदीशयोः परम्
स्थित्युद्भवान्तं भुवनत्रयस्य यः। समीहितेऽनन्तगुणः स्वलीलया। न तस्य चित्रं परपक्षनिग्रहस्। तथापि मर्त्यानुविधस्य वर्ण्यते
जग्राह विरथं रामो जरासन्धं महाबलम्। हतानीकावशिष्टासुं सिंहः सिंहमिवौजसा
बध्यमानं हतारातिं पाशैर्वारुणमानुषैः। वारयामास गोविन्दस्तेन कार्यचिकीर्षया
सा मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः। तपसे कृतसङ्कल्पो वारितः पथि राजभिः
वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि। स्वकर्मबन्धप्राप्तोऽयं यदुभिस्ते पराभवः
हतेषु सर्वानीकेषु नृपो बार्हद्रथस्तदा। उपेक्षितो भगवता मगधान्दुर्मना ययौ
मुकुन्दोऽप्यक्षतबलो निस्तीर्णारिबलार्णवः। विकीर्यमाणः कुसुमैस्त्रीदशैरनुमोदितः
माथुरैरुपसङ्गम्य विज्वरैर्मुदितात्मभिः। उपगीयमानविजयः सूतमागधबन्दिभिः
शङ्खदुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः। वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ
सिक्तमार्गां हृष्टजनां पताकाभिरभ्यलङ्कृताम्। निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम्
निचीयमानो नारीभिर्माल्यदध्यक्षताङ्कुरैः। निरीक्ष्यमाणः सस्नेहं प्रीत्युत्कलितलोचनैः
आयोधनगतं वित्तमनन्तं वीरभूषणम्। यदुराजाय तत्सर्वमाहृतं प्रादिशत्प्रभुः
एवं सप्तदशकृत्वस्तावत्यक्षौहिणीबलः। युयुधे मागधो राजा यदुभिः कृष्णपालितैः
अक्षिण्वंस्तद्बलं सर्वं वृष्णयः कृष्णतेजसा। हतेषु स्वेष्वनीकेषु त्यक्तोऽगादरिभिर्नृपः
अष्टादशम सङ्ग्राम आगामिनि तदन्तरा। नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत