धृतराष्ट्र उवाच - यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम्
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा
ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् । भूमेर्भारावताराय योऽवतीर्णो यदोः कुले
( वसंततिलका ) यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्र संसारचक्रगतये परमेश्वराय
श्रीशुक उवाच - ( अनुष्टुप् ) इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात्
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः
रामकृष्णयोर्जरासन्धेन सह युद्धं, द्वारकादुर्गनिर्माणंच - श्रीशुक उवाच। अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ। मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान्
पित्रे मगधराजाय जरासन्धाय दुःखिते। वेदयां चक्रतुः सर्वमात्मवैधव्यकारणम्
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप। अयादवीं महीं कर्तुं चक्रे परममुद्यमम्
अक्षौहिणीभिर्विंशत्या तिसृभिश्चापि संवृतः। यदुराजधानीं मथुरां न्यरुधत्सर्वतो दिशम्
निरीक्ष्य तद्बलं कृष्ण उद्वेलमिव सागरम्। स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम्
चिन्तयामास भगवान्हरिः कारणमानुषः। तद्देशकालानुगुणं स्वावतारप्रयोजनम्
हनिष्यामि बलं ह्येतद्भुवि भारं समाहितम्। मागधेन समानीतं वश्यानां सर्वभूभुजाम्
अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः। मागधस्तु न हन्तव्यो भूयः कर्ता बलोद्यमम्
एतदर्थोऽवतारोऽयं भूभारहरणाय मे। संरक्षणाय साधूनां कृतोऽन्येषां वधाय च
अन्योऽपि धर्मरक्षायै देहः संभ्रियते मया। विरामायाप्यधर्मस्य काले प्रभवतः क्वचित्
एवं ध्यायति गोविन्द आकाशात्सूर्यवर्चसौ। रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ
आयुधानि च दिव्यानि पुराणानि यदृच्छया। दृष्ट्वा तानि हृषीकेशः सङ्कर्षणमथाब्रवीत्
पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो। एष ते रथ आयातो दयितान्यायुधानि च
एतदर्थं हि नौ जन्म साधूनामीश शर्मकृत्। त्रयोविंशत्यनीकाख्यं भूमेर्भारमपाकुरु
एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात्। निर्जग्मतुः स्वायुधाढ्य बलेनाल्पीयसा वृतौ
शङ्खं दध्मौ विनिर्गत्य हरिर्दारुकसारथिः। ततोऽभूत्परसैन्यानां हृदि वित्रासवेपथुः
तावाह मागधो वीक्ष्य हे कृष्ण पुरुषाधम। न त्वया योद्धुमिच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन्
तव राम यदि श्रद्धा युध्यस्व धैर्यमुद्वह। हित्वा वा मच्छरैश्छिन्नं देहं स्वर्याहि मां जहि
श्रीभगवानुवाच। न वै शूरा विकत्थन्ते दर्शयन्त्येव पौरुषम्। न गृह्णीमो वचो राजन्नातुरस्य मुमूर्षतः
श्रीशुक उवाच। जरासुतस्तावभिसृत्य माधवौ महाबलौघेन बलीयसाऽऽवृणोत्। ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुरिवाभ्ररेणुभिः
सुपर्णतालध्वजचिह्नितौ रथाव्। अलक्षयन्त्यो हरिरामयोर्मृधे। स्त्रियः पुराट्टालकहर्म्यगोपुरं। समाश्रिताः सम्मुमुहुः शुचार्दितः
हरिः परानीकपयोमुचां मुहुः शिलीमुखात्युल्बणवर्षपीडितम्। स्वसैन्यमालोक्य सुरासुरार्चितं व्यस्फूर्जयच्छार्ङ्गशरासनोत्तमम्
गृह्णन्निशङ्गादथ सन्दधच्छरान्। विकृष्य मुञ्चन्शितबाणपूगान्। निघ्नन्रथान्कुञ्जरवाजिपत्तीन्। निरन्तरं यद्वदलातचक्रम्