अथ कालेन सा नारी प्रसूता बालकं तदा । आनीय जनको बालं रहस्ये धुन्धुलीं ददौ
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः । लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात्
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च । गीतवादित्रघोषोऽभूत् तद्द्वारं मंगलं बहु
भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम । अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम्
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते । तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति
पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे । पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन्
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् । सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम्
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे । मत्वाऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः
भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत । धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम्
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः । गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत्
कियत्कालेन तौ जातौ तरुणौ तनयावुभौ । गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः
स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः । दुष्परिग्रहकर्ता च शवहस्तेन भोजनम्
चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः । लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत्
हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः । चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः
तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् । एकदा पितरौ ताड्य पात्राणि स्वयमाहरत्
तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह । वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः
क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् । प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम्
तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः । बोधयामास जनकं वैराग्यं परिदर्शयन्
असारः खलु संसारो दुःखरूपी विमोहकः । सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम्
न चेन्द्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः । सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः
मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः । निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज
तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् । किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम्
अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः । कर्मणा पतितो नूनं मामुद्धर दयानिधे
(वसंततिलका) देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुञ्च । पश्यानिशं जगदिदं क्षणभंगनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः
धर्म भजस्व सततं त्यज लोकधर्मान् सेवस्व साधुपुरुषान् जहि कामतृष्णाम् । अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम्
एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्षः । युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात्
देवोद्यानश्रिया जुष्टं अध्यास्ते स्म त्रिपिष्टपम् । महेन्द्रभवनं साक्षात् निर्मितं विश्वकर्मणा । त्रैलोक्यलक्ष्म्यायतनं अध्युवासाखिलर्द्धिमत्
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितः
श्रीमद्भागवतमाहात्म्यम् - पंचमोऽध्यायः धुन्धुकारिणो दुर्मृत्युनिमित्तक प्रेतत्वप्राप्तिवर्णनं ततो गोकर्णानुग्रहेणोद्धारश्च सूत उवाच - (अनुष्टुप्) पितरि उपरते तेन जननी ताडिता भृशम् । क्व वित्तं तिष्ठति ब्रूहि हनिष्ये लत्तया न चेत्
इति तद्वाक्य संत्रासात् जनन्या पुत्रदुःखतः । कूपे पातः कृतो रात्रौ तेन सा निधनं गता