कृतं च धार्तराष्ट्रैर्यद् गरदानाद्यपेशलम् । आचख्यौ सर्वमेवास्मै पृथा विदुर एव च
पृथा तु भ्रातरं प्राप्तं अक्रूरमुपसृत्य तम् । उवाच जन्मनिलयं स्मरन्त्यश्रुकलेक्षणा
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश्च मे । भगिन्यौ भ्रातृपुत्राश्च जामयः सख्य एव च
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वसेयान् स्मरति रामश्चाम्बुरुहेक्षणः
सपत्नमध्ये शोचन्तीं वृकानां हरिणीमिव । सान्त्वयिष्यति मां वाक्यैः पितृहीनांश्च बालकान्
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नां पाहि गोविन्द शिशुभिश्चावसीदतीम्
नान्यत्तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात्
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वामहं शरणं गता
श्रीशुक उवाच - इत्यनुस्मृत्य स्वजनं कृष्णं च जगदीश्वरम् । प्रारुदद् दुखिता राजन् भवतां प्रपितामही
समदुःखसुखोऽक्रूरो विदुरश्च महायशाः । सान्त्वयामासतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः
यास्यन् राजानमभ्येत्य विषमं पुत्रलालसम् । अवदत्सुहृदां मध्ये बन्धुभिः सौहृदोदितम्
अक्रूर उवाच - भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन । भ्रातर्युपरते पाण्डौ अधुनाऽऽसनमास्थितः
धर्मेण पालयन् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिमवाप्स्यसि
अन्यथा त्वाचरँल्लोके गर्हितो यास्यसे तमः । तस्मात्समत्वे वर्तस्व पाण्डवेष्वात्मजेषु च
नेह चात्यन्तसंवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किमु जायात्मजादिभिः
एकः प्रसूयते जन्तुः एक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतं एक एव च दुष्कृतम्
अधर्मोपचितं वित्तं हरन्त्यन्येऽल्पमेधसः । सम्भोजनीयापदेशैः जलानीव जलौकसः
पुष्णाति यानधर्मेण स्वबुद्ध्या तमपण्डितम् । तेऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः
स्वयं किल्बिषमादाय तैस्त्यक्तो नार्थकोविदः । असिद्धार्थो विशत्यन्धं स्वधर्मविमुखस्तमः
तस्माल्लोकमिमं राजन् स्वप्नमायामनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो
धृतराष्ट्र उवाच - यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम्
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा
ईश्वरस्य विधिं को नु विधुनोत्यन्यथा पुमान् । भूमेर्भारावताराय योऽवतीर्णो यदोः कुले
( वसंततिलका ) यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तदनुप्रविष्टः । तस्मै नमो दुरवबोधविहारतन्त्र संसारचक्रगतये परमेश्वराय
श्रीशुक उवाच - ( अनुष्टुप् ) इत्यभिप्रेत्य नृपतेः अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर्यदुपुरीमगात्
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्डवान् प्रति कौरव्य यदर्थं प्रेषितः स्वयम्
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोनपञ्चाशोऽध्यायः
रामकृष्णयोर्जरासन्धेन सह युद्धं, द्वारकादुर्गनिर्माणंच - श्रीशुक उवाच। अस्तिः प्राप्तिश्च कंसस्य महिष्यौ भरतर्षभ। मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर्गृहान्
पित्रे मगधराजाय जरासन्धाय दुःखिते। वेदयां चक्रतुः सर्वमात्मवैधव्यकारणम्
स तदप्रियमाकर्ण्य शोकामर्षयुतो नृप। अयादवीं महीं कर्तुं चक्रे परममुद्यमम्