यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया
सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्। कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम्
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ
एताः परं तनुभृतो भुवि गोपवध्वो। गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च। किं ब्रह्मजन्मभिरनन्तकथारसस्य
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः। कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्। छ्रेयस्तनोत्यगदराज इवोपयुक्तः
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः। स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ। लब्धाशिषां य उदगाद्व्रजवल्लभीनाम्
आसामहो चरणरेणुजुषामहं स्यां। वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा। भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम्
या वै श्रियार्चितमजादिभिराप्तकामैर्। योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्। कृष्णस्य तद्भगवतः चरणारविन्दं। न्यस्तं स्तनेषु विजहुः परिरभ्य तापम्
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम्
श्रीशुक उवाच। अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्
तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम्
कृष्णाय प्रणिपत्याह भक्त्युद्रे कं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात्
भगवताकुब्जामनोरथपूर्तिः; अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानाय अक्रूरस्य हस्तिनापुर प्रति प्रस्थानंच - श्रीशुक उवाच - ( अनुष्टुप् ) अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ
महार्होपस्करैराढ्यं कामोपायोपबृंहितम् । मुक्तादामपताकाभिः वितानशयनासनैः । धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम्
( मिश्र ) गृहं तमायान्तमवेक्ष्य सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सत्-आसनादिभिः
तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् । कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः
सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः
आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे । प्रगृह्य शय्यामधिवेश्य रामया रेमेऽनुलेपार्पणपुण्यलेशया
( वसंततिलका ) सानङ्गतप्तकुचयोरुरसस्तथाक्ष्णोः जिघ्रन्त्यनन्तचरणेन रुजो मृजन्ती । दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् आनन्दमूर्तिमजहादतिदीर्घतापम्
( अनुष्टुप् ) सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यमीश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदमयाचत
आहोष्यतामिह प्रेष्ठ दिनानि कतिचिन्मया । रमस्व नोत्सहे त्यक्तुं सङ्गं तेऽम्बुरुहेक्षण
तस्यै कामवरं दत्त्वा मानयित्वा च मानदः । सहोद्धवेन सर्वेशः स्वधामागमदर्चितम्
दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यं असत्त्वात् कुमनीष्यसौ
अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चित् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया
स तान् नरवरश्रेष्ठान् आरात् वीक्ष्य स्वबान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च
ननाम कृष्णं रामं च स तैरप्यभिवादितः । पूजयामास विधिवत् कृतासनपरिग्रहान्
पादावनेजनीरापो धारयन् शिरसा नृप । अर्हणेनाम्बरैर्दिव्यैः गन्धस्रग् भूषणोत्तमैः