कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित्
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः
गत्या ललितयोदार हासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मराम हे
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात्
श्रीशुक उवाच। ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयांचक्रुर्ज्ञात्वात्मानमधोक्षजम्
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः। कृष्णलीलाकथां गायन्रमयामास गोकुलम्
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया
सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्। कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम्
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ
एताः परं तनुभृतो भुवि गोपवध्वो। गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च। किं ब्रह्मजन्मभिरनन्तकथारसस्य
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः। कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्। छ्रेयस्तनोत्यगदराज इवोपयुक्तः
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः। स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ। लब्धाशिषां य उदगाद्व्रजवल्लभीनाम्
आसामहो चरणरेणुजुषामहं स्यां। वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा। भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम्
या वै श्रियार्चितमजादिभिराप्तकामैर्। योगेश्वरैरपि यदात्मनि रासगोष्ठ्याम्। कृष्णस्य तद्भगवतः चरणारविन्दं। न्यस्तं स्तनेषु विजहुः परिरभ्य तापम्
वन्दे नन्दव्रजस्त्रीणां पादरेणुमभीक्ष्णशः। यासां हरिकथोद्गीतं पुनाति भुवनत्रयम्
श्रीशुक उवाच। अथ गोपीरनुज्ञाप्य यशोदां नन्दमेव च। गोपानामन्त्र्य दाशार्हो यास्यन्नारुरुहे रथम्
तं निर्गतं समासाद्य नानोपायनपाणयः। नन्दादयोऽनुरागेण प्रावोचन्नश्रुलोचनाः
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः। वाचोऽभिधायिनीर्नाम्नां कायस्तत्प्रह्वणादिषु
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया। मङ्गलाचरितैर्दानै रतिर्नः कृष्ण ईश्वरे
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप। उद्धवः पुनरागच्छन्मथुरां कृष्णपालिताम्
कृष्णाय प्रणिपत्याह भक्त्युद्रे कं व्रजौकसाम्। वसुदेवाय रामाय राज्ञे चोपायनान्यदात्
भगवताकुब्जामनोरथपूर्तिः; अक्रूरगृहं गत्वा पाण्डवसमाचारज्ञानाय अक्रूरस्य हस्तिनापुर प्रति प्रस्थानंच - श्रीशुक उवाच - ( अनुष्टुप् ) अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्ध्र्याः कामतप्तायाः प्रियमिच्छन् गृहं ययौ
महार्होपस्करैराढ्यं कामोपायोपबृंहितम् । मुक्तादामपताकाभिः वितानशयनासनैः । धूपैः सुरभिभिर्दीपैः स्रग् गन्धैरपि मण्डितम्
( मिश्र ) गृहं तमायान्तमवेक्ष्य सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिरच्युतं सभाजयामास सत्-आसनादिभिः
तथोद्धवः साधुतयाभिपूजितो न्यषीददुर्व्यामभिमृश्य चासनम् । कृष्णोऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्यनुव्रतः
सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः