येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः। अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया
श्रीशुक उवाच। एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः
गोप्य ऊचुः। दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्। वृन्दावने कुमुदकुन्दशशाङ्करम्ये। रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्। अस्माभिरीडितमनोज्ञकथः कदाचित्
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया
क उत्सहेत सन्त्यक्तुमुत्तमःश्लोकसंविदम्। अनिच्छतोऽपि यस्य श्रीरङ्गान्न च्यवते क्वचित्
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे। सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत। श्रीनिकेतैस्तत्पदकैर्विस्मर्तुं नैव शक्नुमः
गत्या ललितयोदार हासलीलावलोकनैः। माध्व्या गिरा हृतधियः कथं तं विस्मराम हे
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन। मग्नमुद्धर गोविन्द गोकुलं वृजिनार्णवात्
श्रीशुक उवाच। ततस्ताः कृष्णसन्देशैर्व्यपेतविरहज्वराः। उद्धवं पूजयांचक्रुर्ज्ञात्वात्मानमधोक्षजम्
उवास कतिचिन्मासान्गोपीनां विनुदन्शुचः। कृष्णलीलाकथां गायन्रमयामास गोकुलम्
यावन्त्यहानि नन्दस्य व्रजेऽवात्सीत्स उद्धवः। व्रजौकसां क्षणप्रायाण्यासन्कृष्णस्य वार्तया
सरिद्वनगिरिद्रो णीर्वीक्षन्कुसुमितान्द्रु मान्। कृष्णं संस्मारयन्रेमे हरिदासो व्रजौकसाम्
दृष्ट्वैवमादि गोपीनां कृष्णावेशात्मविक्लवम्। उद्धवः परमप्रीतस्ता नमस्यन्निदं जगौ
एताः परं तनुभृतो भुवि गोपवध्वो। गोविन्द एव निखिलात्मनि रूढभावाः । वाञ्छन्ति यद्भवभियो मुनयो वयं च। किं ब्रह्मजन्मभिरनन्तकथारसस्य
क्वेमाः स्त्रियो वनचरीर्व्यभिचारदुष्टाः। कृष्णे क्व चैष परमात्मनि रूढभावः। नन्वीश्वरोऽनुभजतोऽविदुषोऽपि साक्षाच्। छ्रेयस्तनोत्यगदराज इवोपयुक्तः
नायं श्रियोऽङ्ग उ नितान्तरतेः प्रसादः। स्वर्योषितां नलिनगन्धरुचां कुतोऽन्याः। रासोत्सवेऽस्य भुजदण्डगृहीतकण्ठ। लब्धाशिषां य उदगाद्व्रजवल्लभीनाम्
आसामहो चरणरेणुजुषामहं स्यां। वृन्दावने किमपि गुल्मलतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथं च हित्वा। भेजुर्मुकुन्दपदवीं श्रुतिभिर्विमृग्याम्