यदनुचरितलीलाकर्णपीयूषविप्रुट्। सकृददनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना। बहव इह विहङ्गा भिक्षुचर्यां चरन्ति
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः। कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र। स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं। वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं। सततमुरसि सौम्य श्रीर्वधूः साकमास्ते
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु
श्रीशुक उवाच। अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः। सान्त्वयन्प्रियसन्देशैर्गोपीरिदमभाषत
श्रीउद्धव उवाच। अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः। वासुदेवे भगवति यासामित्यर्पितं मनः
दानव्रततपोहोम जपस्वाध्यायसंयमैः। श्रेयोभिर्विविधैश्चान्यैः कृष्णे भक्तिर्हि साध्यते
भगवत्युत्तमःश्लोके भवतीभिरनुत्तमा। भक्तिः प्रवर्तिता दिष्ट्या मुनीनामपि दुर्लभा
दिष्ट्या पुत्रान्पतीन्देहान्स्वजनान्भवनानि च। हित्वावृणीत यूयं यत्कृष्णाख्यं पुरुषं परम्
सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे। विरहेण महाभागा महान्मेऽनुग्रहः कृतः
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः। यमादायागतो भद्रा अहं भर्तू रहस्करः
श्रीभगवानुवाच। भवतीनां वियोगो मे न हि सर्वात्मना क्वचित्। यथा भूतानि भूतेषु खं वाय्वग्निर्जलं मही । तथाहं च मनःप्राण भूतेन्द्रियगुणाश्रयः
आत्मन्येवात्मनात्मानं सृजे हन्म्यनुपालये। आत्ममायानुभावेन भूतेन्द्रियगुणात्मना
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तोऽगुणान्वयः। सुषुप्तिस्वप्नजाग्रद्भिर्मायावृत्तिभिरीयते
येनेन्द्रियार्थान्ध्यायेत मृषा स्वप्नवदुत्थितः। तन्निरुन्ध्यादिन्द्रियाणि विनिद्रः प्रत्यपद्यत
एतदन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम्। त्यागस्तपो दमः सत्यं समुद्रान्ता इवापगाः
यत्त्वहं भवतीनां वै दूरे वर्ते प्रियो दृशाम्। मनसः सन्निकर्षार्थं मदनुध्यानकाम्यया
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते। स्त्रीणां च न तथा चेतः सन्निकृष्टेऽक्षिगोचरे
मय्यावेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत्। अनुस्मरन्त्यो मां नित्यमचिरान्मामुपैष्यथ
या मया क्रीडता रात्र्यां वनेऽस्मिन्व्रज आस्थिताः। अलब्धरासाः कल्याण्यो मापुर्मद्वीर्यचिन्तया
श्रीशुक उवाच। एवं प्रियतमादिष्टमाकर्ण्य व्रजयोषितः। ता ऊचुरुद्धवं प्रीतास्तत्सन्देशागतस्मृतीः
गोप्य ऊचुः। दिष्ट्याहितो हतः कंसो यदूनां सानुगोऽघकृत्। दिष्ट्याप्तैर्लब्धसर्वार्थैः कुशल्यास्तेऽच्युतोऽधुना
कच्चिद्गदाग्रजः सौम्य करोति पुरयोषिताम्। प्रीतिं नः स्निग्धसव्रीड हासोदारेक्षणार्चितः
कथं रतिविशेषज्ञः प्रियश्च पुरयोषिताम्। नानुबध्येत तद्वाक्यैर्विभ्रमैश्चानुभाजितः
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित्। गोष्ठिमध्ये पुरस्त्रीणाम्ग्राम्याः स्वैरकथान्तरे
ताः किं निशाः स्मरति यासु तदा प्रियाभिर्। वृन्दावने कुमुदकुन्दशशाङ्करम्ये। रेमे क्वणच्चरणनूपुररासगोष्ठ्याम्। अस्माभिरीडितमनोज्ञकथः कदाचित्
अप्येष्यतीह दाशार्हस्तप्ताः स्वकृतया शुचा। सञ्जीवयन्नु नो गात्रैर्यथेन्द्रो वनमम्बुदैः
कस्मात्कृष्ण इहायाति प्राप्तराज्यो हताहितः। नरेन्द्र कन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः
किमस्माभिर्वनौकोभिरन्याभिर्वा महात्मनः। श्रीपतेराप्तकामस्य क्रियेतार्थः कृतात्मनः
परं सौख्यं हि नैराश्यं स्वैरिण्यप्याह पिङ्गला। तज्जानतीनां नः कृष्णे तथाप्याशा दुरत्यया