न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु। क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्। क्रीडन्नतीतोऽपि गुणैः सृजत्यवन्हन्त्यजः
यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते। चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः
युवयोरेव नैवायमात्मजो भगवान्हरिः। सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः
दृष्टं श्रुतं भूतभवद्भविष्यत्। स्थास्नुश्चरिष्णुर्महदल्पकं च। विनाच्युताद्वस्तुतरां न वाच्यं। स एव सर्वं परमात्मभूतः
एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपान्वास्तून्समभ्यर्च्य दौधीन्यमन्थुन्
ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः। चलन्नितम्बस्तनहारकुण्डल त्विषत्कपोलारुणकुङ्कुमाननाः
उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम्
भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः। दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन्
अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः। येन नीतो मधुपुरीं कृष्णः कमललोचनः
किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम्। ततः स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः
उद्धवगोपीसंवादः; भ्रमरगीतम्; उद्धवस्य मथुरागमनंच - अथ सप्तचत्वारिंशोऽध्यायः 10.47 श्रीशुक उवाच तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्। पीताम्बरं पुष्करमालिनं लसन् मुखारविन्दं परिमृष्टकुण्डलम् ॥१ सुविस्मिताः कोऽयमपीव्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः। इति स्म सर्वाः परिवव्रुरुत्सुकास् तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥२ तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम्
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम्
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः
काचिन्मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम्। प्रियप्रस्थापितं दूतं कल्पयित्वेदमब्रवीत्
गोप्युवाच। मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः। कुचविलुलितमालाकुङ्कुमश्मश्रुभिर्नः। वहतु मधुपतिस्तन्मानिनीनां प्रसादं। यदुसदसि विडम्ब्यं यस्य दूतस्त्वमीदृक्
सकृदधरसुधां स्वां मोहिनीं पाययित्वा। सुमनस इव सद्यस्तत्यजेऽस्मान्भवादृक्। परिचरति कथं तत्पादपद्मं नु पद्मा। ह्यपि बत हृतचेता ह्युत्तमःश्लोकजल्पैः
किमिह बहु षडङ्घ्रे गायसि त्वं यदूनाम्। अधिपतिमगृहाणामग्रतो नः पुराणम्। विजयसखसखीनां गीयतां तत्प्रसङ्गः। क्षपितकुचरुजस्ते कल्पयन्तीष्टमिष्टाः
दिवि भुवि च रसायां काः स्त्रियस्तद्दुरापाः। कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः। चरणरज उपास्ते यस्य भूतिर्वयं का। अपि च कृपणपक्षे ह्युत्तमश्लोकशब्दः
विसृज शिरसि पादं वेद्म्यहं चाटुकारैर्। अनुनयविदुषस्तेऽभ्येत्य दौत्यैर्मुकुन्दात्। स्वकृत इह विसृष्टापत्यपत्यन्यलोका। व्यसृजदकृतचेताः किं नु सन्धेयमस्मिन्
मृगयुरिव कपीन्द्रं विव्यधे लुब्धधर्मा। स्त्रियमकृत विरूपां स्त्रीजितः कामयानाम्। बलिमपि बलिमत्त्वावेष्टयद्ध्वाङ्क्षवद्यस्। तदलमसितसख्यैर्दुस्त्यजस्तत्कथार्थः
यदनुचरितलीलाकर्णपीयूषविप्रुट्। सकृददनविधूतद्वन्द्वधर्मा विनष्टाः। सपदि गृहकुटुम्बं दीनमुत्सृज्य दीना। बहव इह विहङ्गा भिक्षुचर्यां चरन्ति
वयमृतमिव जिह्मव्याहृतं श्रद्दधानाः। कुलिकरुतमिवाज्ञाः कृष्णवध्वो हरिण्यः। ददृशुरसकृदेतत्तन्नखस्पर्शतीव्र। स्मररुज उपमन्त्रिन्भण्यतामन्यवार्ता
प्रियसख पुनरागाः प्रेयसा प्रेषितः किं। वरय किमनुरुन्धे माननीयोऽसि मेऽङ्ग। नयसि कथमिहास्मान्दुस्त्यजद्वन्द्वपार्श्वं। सततमुरसि सौम्य श्रीर्वधूः साकमास्ते
अपि बत मधुपुर्यामार्यपुत्रोऽधुनास्ते। स्मरति स पितृगेहान्सौम्य बन्धूंश्च गोपान्। क्वचिदपि स कथा नः किङ्करीणां गृणीते। भुजमगुरुसुगन्धं मूर्ध्न्यधास्यत्कदा नु