यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा
तयोरित्थं भगवति कृष्णे नन्दयशोदयोः। वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा
श्रीउद्धव उवाच। युवां श्लाघ्यतमौ नूनं देहिनामिह मानद। नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी
एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्। अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ
यस्मिन्जनः प्राणवियोगकाले क्षणं समावेश्य मनोऽविशुद्धम्। निर्हृत्य कर्माशयमाशु याति परां गतिं ब्रह्ममयोऽर्कवर्णः
तस्मिन्भवन्तावखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ। भावं विधत्तां नितरां महात्मन्किं वावशिष्टं युवयोः सुकृत्यम्
आगमिष्यत्यदीर्घेण कालेन व्रजमच्युतः। प्रियं विधास्यते पित्रोर्भगवान्सात्वतां पतिः
हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम्। यदाह वः समागत्य कृष्णः सत्यं करोति तत्
मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णमन्तिके। अन्तर्हृदि स भूतानामास्ते ज्योतिरिवैधसि
न ह्यस्यास्ति प्रियः कश्चिन्नाप्रियो वास्त्यमानिनः। नोत्तमो नाधमो वापि समानस्यासमोऽपि वा
न माता न पिता तस्य न भार्या न सुतादयः। नात्मीयो न परश्चापि न देहो जन्म एव च
न चास्य कर्म वा लोके सदसन्मिश्रयोनिषु। क्रीडार्थं सोऽपि साधूनां परित्राणाय कल्पते
सत्त्वं रजस्तम इति भजते निर्गुणो गुणान्। क्रीडन्नतीतोऽपि गुणैः सृजत्यवन्हन्त्यजः
यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते। चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः
युवयोरेव नैवायमात्मजो भगवान्हरिः। सर्वेषामात्मजो ह्यात्मा पिता माता स ईश्वरः
दृष्टं श्रुतं भूतभवद्भविष्यत्। स्थास्नुश्चरिष्णुर्महदल्पकं च। विनाच्युताद्वस्तुतरां न वाच्यं। स एव सर्वं परमात्मभूतः
एवं निशा सा ब्रुवतोर्व्यतीता नन्दस्य कृष्णानुचरस्य राजन्। गोप्यः समुत्थाय निरूप्य दीपान्वास्तून्समभ्यर्च्य दौधीन्यमन्थुन्
ता दीपदीप्तैर्मणिभिर्विरेजू रज्जूर्विकर्षद्भुजकङ्कणस्रजः। चलन्नितम्बस्तनहारकुण्डल त्विषत्कपोलारुणकुङ्कुमाननाः
उद्गायतीनामरविन्दलोचनं व्रजाङ्गनानां दिवमस्पृशद्ध्वनिः। दध्नश्च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाममङ्गलम्
भगवत्युदिते सूर्ये नन्दद्वारि व्रजौकसः। दृष्ट्वा रथं शातकौम्भं कस्यायमिति चाब्रुवन्
अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः। येन नीतो मधुपुरीं कृष्णः कमललोचनः
किं साधयिष्यत्यस्माभिर्भर्तुः प्रीतस्य निष्कृतिम्। ततः स्त्रीणां वदन्तीनामुद्धवोऽगात्कृताह्निकः
उद्धवगोपीसंवादः; भ्रमरगीतम्; उद्धवस्य मथुरागमनंच - अथ सप्तचत्वारिंशोऽध्यायः 10.47 श्रीशुक उवाच तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम्। पीताम्बरं पुष्करमालिनं लसन् मुखारविन्दं परिमृष्टकुण्डलम् ॥१ सुविस्मिताः कोऽयमपीव्यदर्शनः कुतश्च कस्याच्युतवेषभूषणः। इति स्म सर्वाः परिवव्रुरुत्सुकास् तमुत्तमःश्लोकपदाम्बुजाश्रयम् ॥२ तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः। रहस्यपृच्छन्नुपविष्टमासने विज्ञाय सन्देशहरं रमापतेः
जानीमस्त्वां यदुपतेः पार्षदं समुपागतम्। भर्त्रेह प्रेषितः पित्रोर्भवान्प्रियचिकीर्षया
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे। स्नेहानुबन्धो बन्धूनां मुनेरपि सुदुस्त्यजः
अन्येष्वर्थकृता मैत्री यावदर्थविडम्बनम्। पुम्भिः स्त्रीषु कृता यद्वत्सुमनःस्विव षट्पदैः
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः। अधीतविद्या आचार्यमृत्विजो दत्तदक्षिणम्
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम्। दग्धं मृगास्तथारण्यं जारा भुक्त्वा रतां स्त्रियम्
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः। कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः
गायन्त्यः प्रीयकर्माणि रुदन्त्यश्च गतह्रियः। तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः