तमाह भगवान्प्रेष्ठं भक्तमेकान्तिनं क्वचित्। गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः
गच्छोद्धव व्रजं सौम्य पित्रोर्नौ प्रीतिमावह। गोपीनां मद्वियोगाधिं मत्सन्देशैर्विमोचय
ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः। मामेव दयितं प्रेष्ठमात्मानं मनसा गताः । ये त्यक्तलोकधर्माश्च मदर्थे तान्बिभर्म्यहम्
मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः। स्मरन्त्योऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः
धारयन्त्यतिकृच्छ्रेण प्रायः प्राणान्कथञ्चन। प्रत्यागमनसन्देशैर्बल्लव्यो मे मदात्मिकाः
श्रीशुक उवाच। इत्युक्त उद्धवो राजन्सन्देशं भर्तुरादृतः। आदाय रथमारुह्य प्रययौ नन्दगोकुलम्
प्राप्तो नन्दव्रजं श्रीमान्निम्लोचति विभावसौ। छन्नयानः प्रविशतां पशूनां खुररेणुभिः
वासितार्थेऽभियुध्यद्भिर्नादितं शुष्मिभिर्वृषैः। धावन्तीभिश्च वास्राभिरूधोभारैः स्ववत्सकान्
इतस्ततो विलङ्घद्भिर्गोवत्सैर्मण्डितं सितैः। गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च
गायन्तीभिश्च कर्माणि शुभानि बलकृष्णयोः। स्वलङ्कृताभिर्गोपीभिर्गोपैश्च सुविराजितम्
अग्न्यर्कातिथिगोविप्र पितृदेवार्चनान्वितैः। धूपदीपैश्च माल्यैश्च गोपावासैर्मनोरमम्
सर्वतः पुष्पितवनं द्विजालिकुलनादितम्। हंसकारण्डवाकीर्णैः पद्मषण्डैश्च मण्डितम्
तमागतं समागम्य कृष्णस्यानुचरं प्रियम्। नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत्
भोजितं परमान्नेन संविष्टं कशिपौ सुखम्। गतश्रमं पर्यपृच्छत्पादसंवाहनादिभिः
कच्चिदङ्ग महाभाग सखा नः शूरनन्दनः। आस्ते कुशल्यपत्याद्यैर्युक्तो मुक्तः सुहृद्व्रतः
दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना। साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा
अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन्। गोपान्व्रजं चात्मनाथं गावो वृन्दावनं गिरिम्
अप्यायास्यति गोविन्दः स्वजनान्सकृदीक्षितुम्। तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम्
दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः। दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना
स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम्। हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः
सरिच्छैलवनोद्देशान्मुकुन्दपदभूषितान्। आक्रीडानीक्ष्यमाणानां मनो याति तदात्मताम्
मन्ये कृष्णं च रामं च प्राप्ताविह सुरोत्तमौ। सुराणां महदर्थाय गर्गस्य वचनं यथा
कंसं नागायुतप्राणं मल्लौ गजपतिं यथा। अवधिष्टां लीलयैव पशूनिव मृगाधिपः
तालत्रयं महासारं धनुर्यष्टिमिवेभराट्। बभञ्जैकेन हस्तेन सप्ताहमदधाद्गिरिम्
प्रलम्बो धेनुकोऽरिष्टस्तृणावर्तो बकादयः। दैत्याः सुरासुरजितो हता येनेह लीलया
श्रीशुक उवाच। इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः। अत्युत्कण्ठोऽभवत्तूष्णीं प्रेमप्रसरविह्वलः
यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च। शृण्वन्त्यश्रूण्यवास्राक्षीत्स्नेहस्नुतपयोधरा
तयोरित्थं भगवति कृष्णे नन्दयशोदयोः। वीक्ष्यानुरागं परमं नन्दमाहोद्धवो मुदा
श्रीउद्धव उवाच। युवां श्लाघ्यतमौ नूनं देहिनामिह मानद। नारायणेऽखिलगुरौ यत्कृता मतिरीदृशी
एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम्। अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ