यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम्
एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम्
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ
अथ शूरसुतो राजन्पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम्
तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः
याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ
प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम्
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ
तयोर्द्विजवरस्तुष्टः शुद्धभावानुवृत्तिभिः। प्रोवाच वेदानखिलान् साङ्गोपनिषदो गुरुः
सरहस्यं धनुर्वेदं धर्मान्न्यायपथांस्तथा। तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम्
सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ। सकृन्निगदमात्रेण तौ सञ्जगृहतुर्नृप
अहोरात्रैश्चतुःषष्ट्या संयत्तौ तावतीः कलाः*। गुरुदक्षिणयाचार्यं छन्दयामासतुर्नृप
द्विजस्तयोस्तं महिमानमद्भुतं संलक्ष्य राजन्नतिमानुषीं मतिम्। सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह
तथेत्यथारुह्य महारथौ रथं प्रभासमासाद्य दुरन्तविक्रमौ। वेलामुपव्रज्य निषीदतुः क्षणं सिन्धुर्विदित्वार्हणमाहरत्तयोः
तमाह भगवानाशु गुरुपुत्रः प्रदीयताम्। योऽसाविह त्वया ग्रस्तो बालको महतोर्मिणा
श्रीसमुद्र उवाच। न चाहार्षमहं देव दैत्यः पञ्चजनो महान्। अन्तर्जलचरः कृष्ण शङ्खरूपधरोऽसुरः
आस्ते तेनाहृतो नूनं तच्छ्रुत्वा सत्वरं प्रभुः। जलमाविश्य तं हत्वा नापश्यदुदरेऽर्भकम्
तदङ्गप्रभवं शङ्खमादाय रथमागमत्। ततः संयमनीं नाम यमस्य दयितां पुरीम्
गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः। शङ्खनिर्ह्रादमाकर्ण्य प्रजासंयमनो यमः
तयोः सपर्यां महतीं चक्रे भक्त्युपबृंहिताम्। उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर्विष्णो युवयोः करवाम किम्
श्रीभगवानुवाच। गुरुपुत्रमिहानीतं निजकर्मनिबन्धनम्। आनयस्व महाराज मच्छासनपुरस्कृतः
तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ। दत्त्वा स्वगुरवे भूयो वृणीष्वेति तमूचतुः
श्रीगुरुरुवाच। सम्यक्सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः। को नु युष्मद्विधगुरोः कामानामवशिष्यते
गच्छतं स्वगृहं वीरौ कीर्तिर्वामस्तु पावनी। छन्दांस्ययातयामानि भवन्त्विह परत्र च
गुरुणैवमनुज्ञातौ रथेनानिलरंहसा। आयातौ स्वपुरं तात पर्जन्यनिनदेन वै
समनन्दन्प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ। अपश्यन्त्यो बह्वहानि नष्टलब्धधना इव
- भक्तिरसामृतसिन्धु(दक्षिणविभाग, प्रथमलहरी), टीका - श्रीश्यामदास(प्रकाशक - श्रीहरिनाम संकीर्तन मण्डल, वृन्दावन) thumb|६४ कला-१ thumb|६४ कला - २ thumb|६४ कला- ३ thumb|६४ कला- ४ अथ शैवतन्त्रोक्ताश्चतुःषष्टिकला लिख्यन्ते (शब्दकल्पद्रुमः) । {| | गीतम् १ वाद्यम् २ नृत्यम् ३ नाट्यम् ४ आलेख्यम् ५ विशेषकच्छेद्यम् ६ तण्डुलकुसुमबलिविकाराः ७ पुष्पास्तरणम् ८ दशनवसनाङ्गरागाः ९ मणिभूमिकाकर्म्म १० [http://vipin110012.tripod.com/pur_index28/pva4.htm शयनरचनम्] ११ उदकवाद्यम् १२ उदकघातः १३ चित्रायोगाः १४ माल्यग्रथनविकल्पाः १५ शेखरापीडयोजनम् १६ नेपथ्ययोगाः १७ कर्णपत्रभङ्गाः १८ गन्धयुक्तिः १९ भूषणयोजनम् २० ऐन्द्रजालम् २१ कौचुमारयोगाः २२ हस्तलाघवम् २३ चित्रशाकपूपभक्ष्यविकारक्रिया २४ पानकरसरागासवयोजनम् २५ सूचीवापकर्म्माणि २६ सूत्रक्रीडा २७ प्रहेलिका २८ प्रतिमाला २९ दुर्व्वचकयोगाः ३० पुस्तकवाचनम् ३१ नाटिकाख्यायिकादर्शनम् ३२ काव्यसमस्यापूरणम् ३३ पट्टिकावेत्रवाणविकल्पाः ३४ तर्कुकर्म्माणि ३५ तक्षणम् ३६ वास्तुविद्या ३७ रूप्यरत्नपरीक्षा ३८ धातुवादः ३९ मणिरागज्ञानम् ४० आकरज्ञानम् ४१ वृक्षायुर्व्वेदयोगाः ४२ मेषकुक्कुटलावकयुद्धविधिः ४३ शुकशारिकाप्रलापनम् ४४ उत्सादनम् ४५ केशमार्जनकौशलम् ४६ अक्षरमुष्टिकाकथनम् ४७ म्लेच्छितकविकल्पाः ४८ देशभाषाज्ञानम् ४९ पुष्पशकटिकानिमित्तज्ञानम् ५० यन्त्रमातृका ५१ धारणमातृका ५२ सम्पाट्यम् ५३ मानसीकाव्यक्रिया ५४ क्रियाविकल्पाः ५५ छलितकयोगाः ५६ अभिधानकोषच्छन्दोज्ञानम् ५७ वस्त्रगोपनानि ५८ द्यूतविशेषः ५९ आकर्षक्रीडा ६० बालकक्रीडनकानि ६१ वैनायिकीनां विद्यानां ज्ञानम् ६२ वैजयिकीनां विद्यानां ज्ञानम् ६३ वैतालिकीनां विद्यानां ज्ञानम्
स्वविरहार्तगोपगोपीनां सान्त्वनाय भगवतोद्धवस्य प्रस्थापनम्, नन्दोद्धवसंवादश्च - श्रीशुक उवाच। वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा। शिष्यो बृहस्पतेः साक्षादुद्धवो बुद्धिसत्तमः