संततेः सगरो दुःखं अवाप अङ्गः पुरा तथा । रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम्
ब्राह्मण उवाच - विवेकेन भवेत्किं मे पुत्रं देहि बलादपि । नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः
पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि । गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः । चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात्
न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः । अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम्
तस्याग्रहं समालोक्य फलमेकं स दत्तवान् । इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति
सत्यं शौचं दया दानं एकभक्तं तु भोजनम् । वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः
एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः । पत्न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित्
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह । अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये
फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता । स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत्
दैवाद् धाटी व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् । शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत्
तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् । प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे
मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा । सत्यशौचादिनियमो दुराराध्यः स दृश्यते
लालने पालने दुःखं प्रसूतायाश्च वर्तते । वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् । पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम्
एकदा भगिनी तस्याः तद्गृहः स्वेच्छयाऽऽगता । तदग्रे कथितं सर्वं चिन्तेयं महती हि मे
दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् । साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः
तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् । वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम्
षण्मासिको मृतो बाल इति लोको वदिष्यति । तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे
फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् । तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः
अथ कालेन सा नारी प्रसूता बालकं तदा । आनीय जनको बालं रहस्ये धुन्धुलीं ददौ
तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः । लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात्
ददौ दानं द्विजातिभ्यो जातकर्म विधाय च । गीतवादित्रघोषोऽभूत् तद्द्वारं मंगलं बहु
भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम । अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम्
मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते । तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति
पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे । पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन्
त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् । सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम्
दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे । मत्वाऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः
भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत । धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम्
न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः । गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत्