नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित्
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम्
सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा
यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः
तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम्
श्रीशुक उवाच। इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम्
सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ
एवमाश्वास्य पितरौ भगवान्देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम्
आह चास्मान्महाराज प्रजाश्चाज्ञप्तुमर्हसि। ययातिशापाद्यदुभिर्नासितव्यं नृपासने
मयि भृत्य उपासीने भवतो विबुधादयः। बलिं हरन्त्यवनताः किमुतान्ये नराधिपाः
सर्वान्स्वान्ज्ञातिसम्बन्धान्दिग्भ्यः कंसभयाकुलान्। यदुवृष्ण्यन्धकमधु दाशार्हकुकुरादिकान्
सभाजितान्समाश्वास्य विदेशावासकर्शितान्। न्यवासयत्स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत्
कृष्णसङ्कर्षणभुजैर्गुप्ता लब्धमनोरथाः। गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः
वीक्षन्तोऽहरहः प्रीता मुकुन्दवदनाम्बुजम्। नित्यं प्रमुदितं श्रीमत्सदयस्मितवीक्षणम्
तत्र प्रवयसोऽप्यासन्युवानोऽतिबलौजसः। पिबन्तोऽक्षैर्मुकुन्दस्य मुखाम्बुजसुधां मुहुः
अथ नन्दं समसाद्य भगवान्देवकीसुतः। सङ्कर्षणश्च राजेन्द्र परिष्वज्येदमूचतुः
पितर्युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम्। पित्रोरभ्यधिका प्रीतिरात्मजेष्वात्मनोऽपि हि
स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत्। शिशून्बन्धुभिरुत्सृष्टानकल्पैः पोषरक्षणे
यात यूयं व्रजं तात वयं च स्नेहदुःखितान्। ज्ञातीन्वो द्रष्टुमेष्यामो विधाय सुहृदां सुखम्
एवं सान्त्वय्य भगवान्नन्दं सव्रजमच्युतः। वासोऽलङ्कारकुप्याद्यैरर्हयामास सादरम्
इत्युक्तस्तौ परिष्वज्य नन्दः प्रणयविह्वलः। पूरयन्नश्रुभिर्नेत्रे सह गोपैर्व्रजं ययौ
अथ शूरसुतो राजन्पुत्रयोः समकारयत्। पुरोधसा ब्राह्मणैश्च यथावद्द्विजसंस्कृतिम्
तेभ्योऽदाद्दक्षिणा गावो रुक्ममालाः स्वलङ्कृताः। स्वलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः
याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः। ताश्चाददादनुस्मृत्य कंसेनाधर्मतो हृताः
ततश्च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ। गर्गाद्यदुकुलाचार्याद्गायत्रं व्रतमास्थितौ
प्रभवौ सर्वविद्यानां सर्वज्ञौ जगदीश्वरौ। नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः
अथो गुरुकुले वासमिच्छन्तावुपजग्मतुः। काश्यं सान्दीपनिं नाम ह्यवन्तिपुरवासिनम्
यथोपसाद्य तौ दान्तौ गुरौ वृत्तिमनिन्दिताम्। ग्राहयन्तावुपेतौ स्म भक्त्या देवमिवादृतौ