एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत्
तं आविशन्तमालोक्य मृत्युमात्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी
( मिश्र ) तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य
प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वत्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः
तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः । हा हेति शब्दः सुमहान् तदाभूद् उदीरितः सर्वजनैर्नरेन्द्र
स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन्श्वसन् । ददर्श चक्रायुधमग्रतो यतः तदेव रूपं दुरवापमाप
( अनुष्टुप् ) तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः । अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः
तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः । अहन् परिघमुद्यम्य पशूनिव मृगाधिपः
नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः
तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः
शयानान् न्वीरशय्यायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः
हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयमिव निवृत्तोत्सवमङ्गला
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम्
सर्वेषामिह भूतानां एष हि प्रभवाप्ययः । गोप्ता च तदवध्यायी न क्वचित् सुखमेधते
श्रीशुक उवाच - राजयोषित आश्वास्य भगवान् लोकभावनः । यामाहुर्लौकिकीं संस्थां हतानां समकारयत्
मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः
देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ
वसुदेवदेवकी सान्त्वनम्; उग्रसेनस्य राज्याभिषेकः; रामकृष्णयोरुपनयनं विद्याध्ययनं, गुरुर्मृतपुत्रस्यानयनं च - अथ पञ्चचत्वारिंशोऽध्यायः। श्रीशुक उवाच। पितरावुपलब्धार्थौ विदित्वा पुरुषोत्तमः। मा भूदिति निजां मायां ततान जनमोहिनीम्
उवाच पितरावेत्य साग्रजः सात्वर्षभः। प्रश्रयावनतः प्रीणन्नम्ब तातेति सादरम्
नास्मत्तो युवयोस्तात नित्योत्कण्ठितयोरपि। बाल्यपौगण्डकैशोराः पुत्राभ्यामभवन्क्वचित्
न लब्धो दैवहतयोर्वासो नौ भवदन्तिके। यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम्
सर्वार्थसम्भवो देहो जनितः पोषितो यतः। न तयोर्याति निर्वेशं पित्रोर्मर्त्यः शतायुषा
यस्तयोरात्मजः कल्प आत्मना च धनेन च। वृत्तिं न दद्यात्तं प्रेत्य स्वमांसं खादयन्ति हि
मातरं पितरं वृद्धं भार्यां साध्वीं सुतं शिशुम्। गुरुं विप्रं प्रपन्नं च कल्पोऽबिभ्रच्छ्वसन्मृतः
तन्नावकल्पयोः कंसान्नित्यमुद्विग्नचेतसोः। मोघमेते व्यतिक्रान्ता दिवसा वामनर्चतोः
तत्क्षन्तुमर्हथस्तात मातर्नौ परतन्त्रयोः। अकुर्वतोर्वां शुश्रूषां क्लिष्टयोर्दुर्हृदा भृशम्
श्रीशुक उवाच। इति मायामनुष्यस्य हरेर्विश्वात्मनो गिरा। मोहितावङ्कमारोप्य परिष्वज्यापतुर्मुदम्
सिञ्चन्तावश्रुधाराभिः स्नेहपाशेन चावृतौ। न किञ्चिदूचतू राजन्बाष्पकण्ठौ विमोहितौ
एवमाश्वास्य पितरौ भगवान्देवकीसुतः। मातामहं तूग्रसेनं यदूनामकरोन्नृपम्