स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत
नाचलत् तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः
भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् । विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत्
तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम्
प्रवेपितः स रुधिरं उद्वमन् मुखतोऽर्दितः । व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः
ततः कूटमनुप्राप्तं रामः प्रहरतां वरः । अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना
तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः । द्विधा विदीर्णस्तोशलक उभावपि निपेततुः
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति
हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह
निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम्
वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः
एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत्
तं आविशन्तमालोक्य मृत्युमात्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी
( मिश्र ) तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य
प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वत्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः
तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः । हा हेति शब्दः सुमहान् तदाभूद् उदीरितः सर्वजनैर्नरेन्द्र
स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन्श्वसन् । ददर्श चक्रायुधमग्रतो यतः तदेव रूपं दुरवापमाप
( अनुष्टुप् ) तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः । अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः
तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः । अहन् परिघमुद्यम्य पशूनिव मृगाधिपः
नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः
तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः
शयानान् न्वीरशय्यायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः
हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः
त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयमिव निवृत्तोत्सवमङ्गला
अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम्
सर्वेषामिह भूतानां एष हि प्रभवाप्ययः । गोप्ता च तदवध्यायी न क्वचित् सुखमेधते
श्रीशुक उवाच - राजयोषित आश्वास्य भगवान् लोकभावनः । यामाहुर्लौकिकीं संस्थां हतानां समकारयत्
मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः