परिभ्रामणविक्षेप परिरम्भावपातनैः । उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम्
उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि । परस्परं जिगीषन्तौ अपचक्रतुरात्मनः
तद्बलाबलवद् युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः
महानयं बताधर्म एषां राजसभासदाम् । ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः
क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ
धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित्
न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते
वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः
किं न पश्यत रामस्य मुखमाताम्रलोचनम् । मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम्
( वसंततिलका ) पुण्या बत व्रजभुवो यदयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः । गाः पालयन्सहबलः क्वणयंश्च वेणुं विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः
गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् । दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रीय ऐश्वरस्य
या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितो-क्षणमार्जनादौ । गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः
प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् । निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम्
( अनुष्टुप् ) एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ
सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ । पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम्
तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ
भगवद्गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह
स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत
नाचलत् तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः
भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् । विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत्
तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम्
प्रवेपितः स रुधिरं उद्वमन् मुखतोऽर्दितः । व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः
ततः कूटमनुप्राप्तं रामः प्रहरतां वरः । अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना
तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः । द्विधा विदीर्णस्तोशलक उभावपि निपेततुः
चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः
गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ
जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति
हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह
निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम्
वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः