कुब्जायामनुग्रहः; धनुषो भङ्गः; मल्लशालासज्जीकरणं च - श्रीशुक उवाच - ( मिश्र ) अथ व्रजन्राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः
का त्वं वरोर्वेतदु हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्यावयोरङ्गविलेपमुत्तमं श्रेयः ततस्ते न चिराद् भविष्यति
सैरन्ध्रि उवाच - दास्यस्म्यहं सुन्दर कंससम्मता त्रिवक्रनामा ह्यनुलेपकर्मणि । मद्भावितं भोजपतेरतिप्रियं विना युवां कोऽन्यतमस्तदर्हति
( अनुष्टुप् ) रूपपेशलमाधुर्य हसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रं उभयोरनुलेपनम्
ततस्तावङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभातेऽनुरञ्जितौ
प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश्चक्रे दर्शयन् दर्शने फलम्
पद्भ्यामाक्रम्य प्रपदे द्र्यङ्गुल्युत्तान पाणिना । प्रगृह्य चिबुकेऽध्यात्मं उदनीनमदच्युतः
सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा
ततो रूपगुणौदार्य संपन्ना प्राह केशवम् । उत्तरीयान् तमकृष्य स्मयन्ती जातहृच्छया
एहि वीर गृहं यामो न त्वां त्यक्तुमिहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ
एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानुगानां च प्रहसन् तामुवाच ह
एष्यामि ते गृहं सुभ्रु पुंसामाधिविकर्शनम् । साधितार्थोऽगृहाणां नः पान्थानां त्वं परायणम्
विसृज्य माध्व्या वाण्या तां व्रजन् मार्गे वणिक्पथैः । नानोपायनताम्बूल स्रग्गन्धैः साग्रजोऽर्चितः
तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्तवासःकबर वलया लेख्यमूर्तयः
ततः पौरान् पृच्छमानो धनुषः स्थानमच्युतः । तस्मिन् प्रविष्टो ददृशे धनुरैन्द्रं इवाद्भुतम्
पुरुषैर्बहुभिर्गुप्तं अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे
( वंशस्था ) करेण वामेन सलीलमुद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्युरुक्रमः
( अनुष्टुप् ) धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयामास यं श्रुत्वा कंसस्त्रासमुपागमत्
तद् रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतुकामा आवव्रुः गृह्यतां वध्यतामिति
अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश्च जघ्नतुः
बलं च कंसप्रहितं हत्वा शालामुखात्ततः । निष्क्रम्य चेरतुर्हृष्टौ निरीक्ष्य पुरसम्पदः
तयोस्तदद्भुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ
तयोर्विचरतोः स्वैरं आदित्योऽस्तमुपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच्छकटमीयतुः
( वसंततिलका ) गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्यभूवन् । संपश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश्चकमेऽयनं श्रीः
( अनुष्टुप् ) अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस्तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम्
कंसस्तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्द रामविक्रीडितं परम्
दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्यचष्टोभयथा मृत्योर्दौत्यकराणि च
अदर्शनं स्वशिरसः प्रतिरूपे च सत्यपि । असत्यपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा
छिद्रप्रतीतिश्छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर्वृक्षेषु स्वपदानामदर्शनम्
स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान्नलदमाल्येकः तैलाभ्यक्तो दिगम्बरः