पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे । गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा
धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च । न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम्
एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः । मध्याह्ने तृषितो जातः तडागं समुपेयिवान्
पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः । मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः
दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् । नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः
यतिरुवाच - कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी । वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम्
ब्राह्मण उवाच - किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् । मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते
मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः । प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः
धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना । धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना
पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् । यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत्
यत्फलं मद्गृहायातं तच्च शीघ्रं विनश्यति । निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे
इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः । तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी
तद्भालाक्षरमालां च वाचमायास योगवान् । सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम्
यतिरुवाच - मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः । विवेकं तु समासाद्य त्यज संसारवासनाम्
श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् । सप्तजन्मावधि तव पुत्रो नैव च नैव च
संततेः सगरो दुःखं अवाप अङ्गः पुरा तथा । रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम्
ब्राह्मण उवाच - विवेकेन भवेत्किं मे पुत्रं देहि बलादपि । नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः
पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि । गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः
इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः । चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात्
न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः । अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम्
तस्याग्रहं समालोक्य फलमेकं स दत्तवान् । इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति
सत्यं शौचं दया दानं एकभक्तं तु भोजनम् । वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः
एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः । पत्न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित्
तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह । अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये
फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता । स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत्
दैवाद् धाटी व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् । शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत्
तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् । प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे
मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा । सत्यशौचादिनियमो दुराराध्यः स दृश्यते
लालने पालने दुःखं प्रसूतायाश्च वर्तते । वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः
एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् । पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम्