कुमाराः ऊचुः - कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् । त्वरितं गम्यते कुत्र कुतश्चागमनं तव
इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः । तवेदं मुक्तसङ्गस्य नोचितं वद कारणम्
नारद उवाच - अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति । पुष्करं च प्रयागं च काशीं गोदावरीं तथा
हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् । एवमादिषु तीर्थेषु भ्रममाण इतस्ततः
नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् । कलिनाधर्ममित्रेण धरेयं बाधिताधुना
सत्यं नास्ति तपः शौचं दया दानं न विद्यते । उदरंभरिणो जीवा वराकाः कूटभाषिणः
मन्दाः सुमन्दमतयो मन्दभाग्या हि उपद्रुताः । पाखण्डनिरताः संतो विरक्ताः सपरिग्रहाः
तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः । कन्याविक्रयिणो लोभाद् दंपतीनां च कल्कनम्
आश्रमा यवनै रुद्धाः तीर्थानि सरितस्तथा । देवतायतनान्यत्र दुष्टैः नष्टानि भूरिशः
न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः । कलिदावानलेनाद्य साधनं भस्मतां गतम्
अट्टशूला जनपदाः शिवशूला द्विजातयः । कामिन्यः केशशूलिन्यः संभवन्ति कलौ इह
एवं पश्यन् कलेर्दोषान् पर्यटन् अवनीं अहम् । यामुनं तटमापन्नो यत्र लीला हरेरभूत्
तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः । एका तु तरुणी तत्र निषण्णा खिन्नमानसा
वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ । शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः
दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः । वीज्यमाना शतस्त्रीभिः बोध्यमाना मुहुर्मुहुः
दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन तदन्तिकम् । मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद् वचः
बालोवाच - भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय । दर्शनं तव लोकस्य सर्वथाघहरं परम्
बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति । यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा
नारद उवाच - कासि त्वं कौ इमौ चेमा नार्यः काः पद्मलोचनाः । वद देवि सविस्तारं स्वस्य दुःखस्य कारणम्
बालोवाच - अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ । ज्ञानवैराग्य नामानौ कालयोगेन जर्जरौ
गङ्गाद्या स्मरितश्चेमा मत्सेवार्थं समागताः । तथापि न च मे श्रेयः सेवितायाः सुरैरपि
इदानीं श्रुणु मद्वार्तां सचित्तस्त्वं तपोधन । वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह
उत्पन्ना द्रविडे साहं वृद्धिं कर्नाटके गता । क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णतां गता
तत्र घोर कलेर्योगात् पाखण्डैः खण्डिताङ्गका । दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम्
वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी । जाताहं उवती सम्यक् श्रेष्ठरूपा तु सांप्रतम्
इमौ तु शयितौ अत्र सुतौ मे क्लिश्यतः श्रमात् । इदं स्थानं परित्यज्य विदेशं गम्यते मया
जरठत्वं समायातौ तेन दुःखेन दुःखिता । साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः
त्रयाणां सहचारित्वात् वैपरीत्यं कुतः स्थितम् । घटते जरठा माता तरुणौ तनयौ इति
अतः शोचामि चात्मानं विस्मयाविष्टमानसा । वद योगनिधे धीमन् कारणं चात्र किं भवेत्
नारद उवाच - ज्ञानेनात्मनि पश्यामि सर्वं एतत् तवानघे । न विषादः त्वया कार्यो हरिः शं ते करिष्यति