देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमःश्लोक नारायण नमोऽस्तु ते
श्रीभगवनुवाच । आयास्ये भवतो गेहं अहमार्यसमन्वितः । यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम्
श्रीशुक उवाच - एवमुक्तो भगवता सोऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ
अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैः दिदृक्षुः परिवारितः
( मिश्र ) ददर्श तां स्फाटिकतुङ्ग गोपुर द्वारां बृहद् हेमकपाटतोरणाम् । ताम्रारकोष्ठां परिखादुरासदां उद्यान रम्योप वनोपशोभिताम्
सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिः भवनैरुपस्कृताम् । वैदूर्यवज्रामलनीलविद्रुमैः मुक्ताहरिद्भिर्वलभीषु वेदिषु
जुष्टेषु जालामुखरन्ध्रकुट्टिमेषु आविष्टपारावतबर्हिनादिताम् । संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम्
आपूर्णकुम्भैर्दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः । सवृन्दरम्भाक्रमुकैः सकेतुभिः स्वलङ्कृतत् द्वारगृहां सपट्टिकैः
तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर्नरदेववर्त्मना । द्रष्टुं समीयुस्त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर्नृपोत्सुकाः
काश्चिग् विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्वथापराः । कृतैकपत्रश्रवणैकनूपुरा नाङ्क्त्वा द्वितीयं त्वपराश्च लोचनम्
अश्नन्त्य एकास्तदपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्योऽर्भमपोह्य मातरः
मनांसि तासामरविन्दलोचनः प्रगल्भलीलाहसितावलोकनैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच्छ्रीरमणात्मनोत्सवम्
( वसंततिलका ) दृष्ट्वा मुहुः श्रुतमनुद्रुतचेतसस्तं । तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः । आनन्दमूर्तिमुपगुह्य दृशात्मलब्धं । हृष्यत्त्वचो जहुरनन्तमरिन्दमाधिम्
( अनुष्टुप् ) प्रासादशिखरारूढाः प्रीत्युत्फुल्लमुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ
दध्यक्षतैः सोदपात्रैः स्रग्गन्धैरभ्युपायनैः । तावानर्चुः प्रमुदिताः तत्र तत्र द्विजातयः
ऊचुः पौरा अहो गोप्यः तपः किमचरन् महत् । या ह्येतावनुपश्यन्ति नरलोकमहोत्सवौ
रजकं कञ्चिदायान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्यत्युत्तमानि च
देह्यावयोः समुचितानि अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस्ते नात्र संशयः
स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः
ईदृशान्येव वासांसी नित्यं गिरिवनेचराः । परिधत्त किमुद्वृत्ता राजद्रव्याण्यभीप्सथ
याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै
एवं विकत्थमानस्य कुपितो देवकीसुतः । रजकस्य कराग्रेण शिरः कायादपातयत्
तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहेऽच्युतः
वसित्वाऽऽत्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस्तथा । शेषाण्यादत्त गोपेभ्यो विसृज्य भुवि कानिचित्
ततस्तु वायकः प्रीतः तयोर्वेषमकल्पयत् । विचित्रवर्णैश्चैलेयैः आकल्पैरनुरूपतः
नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्वलङ्कृतौ बालगजौ पर्वणीव सितेतरौ तस्य प्रसन्नो भगवान् प्रादात् सारूप्यमात्मनः । श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम्
ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि
तयोरासनमानीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश्चक्रे स्रक्ताम्बूलानुलेपनैः
प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृदेवर्षयो मह्यं तुष्टा ह्यागमनेन वाम्
भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाविहांशेन क्षेमाय च भवाय च