तासां मुकुन्दो मधुमञ्जुभाषितैरः गृहीतचित्तः परवान् मनस्व्यपि । कथं पुनर्नः प्रतियास्यतेऽबला ग्राम्याः सलज्जस्मितविभ्रमैर्भ्रमन्
अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धक वृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम्
मैतद्विधस्याकरुणस्य नाम भूद् अक्रूर इत्येतदतीव दारुणः । योऽसावनाश्वास्य सुदुःखितं जनं प्रियात्प्रियं नेष्यति पारमध्वनः
अनार्द्रधीरेष समास्थितो रथं तमन्वमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैरुपेक्षितं दैवं च नोऽद्य प्रतिकूलमीहते
निवारयामः समुपेत्य माधवं किं नोऽकरिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्गान्निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम्
( वसंततिलका ) यस्यानुरागललितस्मितवल्गुमन्त्र लीलावलोकपरिरम्भणरासगोष्ठाम् । नीताः स्म नः क्षणमिव क्षणदा विना तं गोप्यः कथं न्वतितरेम तमो दुरन्तम्
योऽह्नः क्षये व्रजमनन्तसखः परीतो गोपैर्विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकटाक्षनिरीक्षणेन चित्तं क्षिणोत्यमुमृते नु कथं भवेम
श्रीशुक उवाच - ( मिश्र ) एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति
( अनुष्टुप् ) स्त्रीणामेवं रुदन्तीनां उदिते सवितर्यथ । अक्रूरश्चोदयामास कृतमैत्रादिको रथम्
गोपास्तमन्वसज्जन्त नन्दाद्याः शकटैस्ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान्
गोप्यश्च दयितं कृष्णं अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश्चावतस्थिरे
तास्तथा तप्यतीर्वीक्ष्य स्वप्रस्थाणे यदूत्तमः । सान्त्वयामस सप्रेमैः आयास्य इति दौत्यकैः
यावदालक्ष्यते केतुः यावद्रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः
ता निराशा निववृतुः गोविन्दविनिवर्तने । विशोका अहनी निन्युः गायन्त्यः प्रियचेष्टितम्
भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीं अघनाशिनीम्
तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डमुपव्रज्य सरामो रथमाविशत् अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदमागत्य स्नानं विधिवदाचरत्
निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । तावेव ददृशेऽक्रूरो रामकृष्णौ समन्वितौ
तौ रथस्थौ कथमिह सुतौ आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्युन्मज्ज्य व्यचष्ट सः
तत्रापि च यथापूर्वं आसीनौ पुनरेव सः । न्यमज्जद् दर्शनं यन्मे मृषा किं सलिले तयोः
भूयस्तत्रापि सोऽद्राक्षीत् स्तूयमानमहीश्वरम् । सिद्धचारणगन्धर्वैः असुरैर्नतकन्धरैः
सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतमिव स्थितम्
तस्योत्सङ्गे घनश्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तं पद्मपत्रारुणेक्षणम्
चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम्
प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम्
बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् । चारुजानुयुगं चारु जङ्घायुगलसंयुतम्
तुङ्गगुल्फारुणनख व्रातदीधितिभिर्वृतम् । नवाङ्गुल्यङ्गुष्ठदलैः विलसत् पादपङ्कजम्
सुमहार्हमणिव्रात किरीटकटकाङ्गदैः । कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः
भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम्
सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर्ब्रह्मरुद्राद्यैः नवभिश्च द्विजोत्तमैः
प्रह्रादनारदवसु प्रमुखैर्भागवतोत्तमैः । स्तूयमानं पृथग्भावैः वचोभिरमलात्मभिः