सङ्कर्षणश्च प्रणतं उपगुह्य महामनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम्
पृष्ट्वाथ स्वागतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणमाहरत्
निवेद्य गां चातिथये संवाह्य श्रान्तमादृतः । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् । मखवासैर्गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः
पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावयः
योऽवधीत् स्वस्वसुस्तोकान् क्रोशन्त्या असुतृप् खलः । किं नु स्वित्तत्प्रजानां वः कुशलं विमृशामहे
इत्थं सूनृतया वाचा नन्देन सुसभाजितः । अक्रूरः परिपृष्टेन जहावध्वपरिश्रमम्
श्रीकृष्णबलरामयोर्मथुरायां प्रति प्रस्थानं विरहकातर गोपीनां करुणोद्गारः कालिंद्यां अक्रूरकर्तृकं भगवद्धाम दर्शनं च - श्रीशुक उवाच - ( अनुष्टुप् ) सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पन्पथि यान् स चकार ह
किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन
सायंतनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच्चिकीर्षितम्
श्रीभगवानुवाच - तात सौम्यागतः कच्चित् स्वागतं भद्रमस्तु वः । अपि स्वज्ञातिबन्धूनां अनमीवमनामयम्
किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्न्यङ्ग स्वानां नस्तत्प्रजासु च
अहो अस्मदभूद् भूरि पित्रोर्वृजिनमार्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर्बन्धनं तयोः
दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम्
श्रीशुक उवाच - पृष्टो भगवता सर्वं वर्णयामास माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम्
यत्सन्देशो यदर्थं वा दूतः सम्प्रेषितः स्वयम् । यदुक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः
श्रुत्वाक्रूरवचः कृष्णो बलश्च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः
गोपान् समादिशत् सोऽपि गृह्यतां सर्वगोरसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च
यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल । एवमाघोषयत्क्षत्रा नन्दगोपः स्वगोकुले
गोप्यस्तास्तद् उपश्रुत्य बभूवुर्व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुं अक्रूरं व्रजमागतम्
काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः । स्रंसद्दुद्दुकूलवलय केशग्रंथ्यश्च काश्चन
अन्याश्च तदनुध्यान निवृत्ताशेषवृत्तयः । नाभ्यजानन् इमं लोकं आत्मलोकं गता इव
स्मरन्त्यश्चापराः शौरेः अनुरागस्मितेरिताः । हृदिस्पृशश्चित्रपदा गिरः संमुमुहुः स्त्रियः
गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च
चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्घशः प्रोचुः अश्रुमुख्योऽच्युताशयाः
श्रीगोप्य ऊचुः - ( मिश्र ) अहो विधातस्तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश्चाकृतार्थान् वियुनङ्क्ष्यपार्थकं विक्रीडितं तेऽर्भकचेष्टितं यथा
यस्त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलमुन्नसम् । शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यमसाधु ते कृतम्
क्रूरस्त्वमक्रूरसमाख्यया स्म नः चक्षुर्हि दत्तं हरसे बताज्ञवत् । येनैकदेशेऽखिलसर्गसौष्ठवं त्वदीयमद्राक्ष्म वयं मधुद्विषः
न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् तान् पतीन् तद्दास्यमद्धोपगता नवप्रियः
सुखं प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्यपाङ्गोत् कलितस्मितासवम्