अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः
गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः । आसाते तौ इहानेन रथेनानय मा चिरम्
निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः । तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः
घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान्
उग्रसेनं च पितरं स्थविरं राज्यकामुकम् । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम
ततश्चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुः द्विविदो दयितः सखा
शम्बरो नरको बाणो मय्येव कृतसौहृदाः । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान्
एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम्
श्रीअक्रूर उवाच - राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम्
मनोरथान् करोत्युच्चैः जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते
श्रीशुक उवाच - एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः । प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम्
केशिवधः; नारदकृतं भगवतस्तवनं निलायन क्रीडायां व्योमासुरवधश्च श्रीशुक उवाच - ( मिश्र ) केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन्मनोजवः । सटावधूताभ्रविमानसङ्कुलं कुर्वन्नभो हेषितभीषिताखिलः
विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षुः व्रजं स नम्दस्य जगाम कम्पयन्
तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणीः उपाह्वयत् स व्यनदन् मृगेन्द्रवत्
स तं निशाम्याभिमुखो मखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः
तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः
सः लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले
दन्ता निपेतुर्भगवद्भुजस्पृशः ते केशिनस्तप्तमयस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः
समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः
तद्देहतः कर्कटिकाफलोपमाद् व्यसोरपाकृष्य भुजं महाभुजः । अविस्मितोऽयत्नहतारिरुत्स्मयैः प्रसूनवर्षैर्दिविषद्भिरीडितः
( अनुष्टुप् ) देवर्षिरुपसङ्गम्य भागवतप्रवरो नृप । कृष्णमक्लिष्टकर्माणं रहस्येतदभाषत
कृष्ण कृष्णाप्रमेयात्मन् योगेश जगदीश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो
त्वमात्मा सर्वभूतानां एको ज्योतिरिवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः
आत्मनाऽऽत्माश्रयः पूर्वं मायया ससृजे गुणान् । तैरिदं सत्यसङ्कल्पः सृजस्यत्स्यवसीश्वरः
स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च
दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसन्त्रस्ताः त्यजन्त्यनिमिषा दिवम्
चाणूरं मुष्टिकं चैव मल्लानन्यांश्च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वोऽहनि ते विभो
तस्यानु शङ्खयवन मुराणां नरकस्य च । पारिजातापहरणं इन्द्रस्य च पराजयम्
उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं शापाद् द्वारकायां जगत्पते