निशातमसिमादत्त वसुदेवजिघांसया निवारितो नारदेन तत्सुतौ मृत्युमात्मनः
ज्ञात्वा लोहमयैः पाशैः बबन्ध सह भार्यया । प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम्
प्रेषयामास हन्येतां भवता रामकेशवौ । ततो मुष्टिकचाणूर शलतोशलकादिकान्
अमात्यान् हस्तिपांश्चैव समाहूयाह भोजराट् । भो भो निशम्यतामेतद् वीरचाणूरमुष्टिकौ
नन्दव्रजे किलासाते सुतावानकदुन्दुभेः । रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः
भवद्भ्यामिह सम्प्राप्तौ हन्येतां मल्ललीलया । मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम्
महामात्र त्वया भद्र रङ्गद्वार्युपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ
आरभ्यतां धनुर्यागः चतुर्दश्यां यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे
इत्याज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततोऽक्रूरमुवाच ह
भो भो दानपते मह्यं क्रियतां मैत्रमादृतः । नान्यस्त्वत्तो हिततमो विद्यते भोजवृष्णिषु
अतस्त्वामाश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुमाश्रित्य स्वार्थमध्यगमद् विभुः
गच्छ नन्दव्रजं तत्र सुतौ आवानकदुन्दुभेः । आसाते तौ इहानेन रथेनानय मा चिरम्
निसृष्टः किल मे मृत्युः देवैर्वैकुण्ठसंश्रयैः । तावानय समं गोपैः नन्दाद्यैः साभ्युपायनैः
घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैः घातये वैद्युतोपमैः
तयोर्निहतयोस्तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान्
उग्रसेनं च पितरं स्थविरं राज्यकामुकम् । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम
ततश्चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुः द्विविदो दयितः सखा
शम्बरो नरको बाणो मय्येव कृतसौहृदाः । तैरहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान्
एतज्ज्ञात्वाऽनय क्षिप्रं रामकृष्णाविहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम्
श्रीअक्रूर उवाच - राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्यसिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम्
मनोरथान् करोत्युच्चैः जनो दैवहतानपि । युज्यते हर्षशोकाभ्यां तथाप्याज्ञां करोमि ते
श्रीशुक उवाच - एवमादिश्य चाक्रूरं मन्त्रिणश्च विषृज्य सः । प्रविवेश गृहं कंसः तथाक्रूरः स्वमालयम्
केशिवधः; नारदकृतं भगवतस्तवनं निलायन क्रीडायां व्योमासुरवधश्च श्रीशुक उवाच - ( मिश्र ) केशी तु कंसप्रहितः खुरैर्महीं महाहयो निर्जरयन्मनोजवः । सटावधूताभ्रविमानसङ्कुलं कुर्वन्नभो हेषितभीषिताखिलः
विशालनेत्रो विकटास्यकोटरो बृहद्गलो नीलमहाम्बुदोपमः । दुराशयः कंसहितं चिकीर्षुः व्रजं स नम्दस्य जगाम कम्पयन्
तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर्वालविघूर्णिताम्बुदम् । आत्मानमाजौ मृगयन्तमग्रणीः उपाह्वयत् स व्यनदन् मृगेन्द्रवत्
स तं निशाम्याभिमुखो मखेन खं पिबन्निवाभ्यद्रवदत्यमर्षणः । जघान पद्भ्यामरविन्दलोचनं दुरासदश्चण्डजवो दुरत्ययः
तद् वञ्चयित्वा तमधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञमुत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः
सः लब्धसंज्ञः पुनरुत्थितो रुषा व्यादाय केशी तरसाऽऽपतद्धरिम् । सोऽप्यस्य वक्त्रे भुजमुत्तरं स्मयन् प्रवेशयामास यथोरगं बिले
दन्ता निपेतुर्भगवद्भुजस्पृशः ते केशिनस्तप्तमयस्पृशो यथा । बाहुश्च तद्देहगतो महात्मनो यथाऽऽमयः संववृधे उपेक्षितः
समेधमानेन स कृष्णबाहुना निरुद्धवायुश्चरणांश्च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लेण्डं विसृजन् क्षितौ व्यसुः