भक्तिरुवाच - (उपेंद्रवज्रा) भवद्भिः अद्यैव कृतास्मि पुष्टा कलिप्रणष्टापि कथारसेन । क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु ब्राह्मा इदं तां गिरमूचिरे ते
(इंद्रवज्रा) भक्तेषु गोविन्दसरूपकर्त्री प्रेमैकधर्त्री भवरोगहन्त्री । सा त्वं च तिष्ठस्व सुधैर्यसंश्रया निरंतरं वैष्णवमानसानि
(उपेंद्रवज्रा) ततोऽपि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके । एवं तदाज्ञावसरेऽपि भक्तिः तदा निषण्णा हरिदासचित्ते
(मालिनी) सकलभुवनमध्ये निर्धनास्तेऽपि धन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका । हरिरपि निजलोकं सर्वथातो विहाय प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः
(वसंततिलका) ब्रूमोऽद्य ते किमधिकं महमानमेवं ब्रह्मात्मकस्य भुवि भागवताभिधस्य । यत्संश्रयात् निगदिते लभते सुवक्ता श्रोतापि कृष्णसमतामलमन्यधर्मैः
श्रीमद्भागवतमाहात्म्यम् - चतुर्थोऽध्यायः सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च सूत उवाच - (अनुष्टुप्) अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् । निजलोकं परित्यज्य भगवान् भक्तवत्सलः
वनमाली घनश्यामः पीतवासा मनोहरः । काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः
त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः
परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयानि अमलानि च
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः । तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः
तदा जयजयारावो रसपुष्टिरलौकिकी । चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत्
तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः । दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत्
(वंशस्थ) अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया । मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति
(उपेंद्रवज्रा) अतो नृलोके ननु नास्ति किंचित् चित्तस्य शोधाय कलौ पवित्रम् । अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत्
(इंद्रवज्रा) के के विशुद्ध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन । कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः
कुमारा ऊचुः - (वंशस्थ) ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः । क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते
सत्यन हीना पितृमातृदूषकाः तृष्णाकुलाचाश्रमधर्मवर्जिताः । ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते
पञ्चोग्रपापात् छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये । ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते
कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये । परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते
(अनुष्टुप्) अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् । यस्य श्रवणमात्रेण पापहानिः प्रजायते
तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् । यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः
आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः । श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः
भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता । स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा
लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका । शूरा च गृहकृत्येषु कृपणा कलहप्रिया
एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः । अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम्
पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे । गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा
धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च । न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम्
एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः । मध्याह्ने तृषितो जातः तडागं समुपेयिवान्
पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः । मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः
दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् । नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः