निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः
व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा
मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र
क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः
( स्वागता ) कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार
मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः
वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः
उत्सवं श्रमरुचापि दृशीनां उन्नय खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः
( मिश्र ) मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम्
श्रीशुक उवाच - ( अनुष्टुप् ) एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः
अरिष्टासुरवधः, कंसस्य अक्रूरं प्रति नन्दगोकुल गमनायादेशश्च - श्री शुक उवाच - ( अनुष्टुप् ) अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः । महीं महाककुत्कायः कम्पयन् खुरविक्षताम्
रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन्
किञ्चित्किञ्चित् शकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः । यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम्
पतन्त्यकालतो गर्भाः स्रवन्ति स्म भयेन वै । निर्विशन्ति घना यस्य ककुद्यचलशङ्कया
तं तीक्ष्णशृङ्गमुद्वीक्ष्य गोप्यो गोपाश्च तत्रसुः । पशवो दुद्रुवुर्भीता राजन् संत्यज्य गोकुलम्
कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः । भगवानपि तद्वीक्ष्य गोकुलं भयविद्रुतम्
मा भैष्टेति गिराश्वास्य वृषासुरमुपाह्वयत् । गोपालैः पशुभिर्मन्द त्रासितैः किमसत्तम
बलदर्पहाहं दुष्टानां त्वद्विधानां दुरात्मनाम् । इत्यास्फोट्याच्युतोऽरिष्टं तलशब्देन कोपयन्
सख्युरंसे भुजाभोगं प्रसार्यावस्थितो हरिः । सोऽप्येवं कोपितोऽरिष्टः खुरेणावनिमुल्लिखन् । उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णमुपाद्रवत्
अग्रन्यस्तविषाणाग्रः स्तब्धासृग् लोचनोऽच्युतम् । कटाक्षिप्याद्रवत् तूर्ण् इन्द्रमुक्तोऽशनिर्यथा
गृहीत्वा शृङ्गयोस्तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा
सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः
( मिश्र ) तं आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले । निष्पीडयामास यथाऽऽर्द्रमम्बरं कृत्वा विषाणेन जघान सोऽपतत्
असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश्च पादाननवस्थितेक्षणः । जगाम कृच्छ्रं निर्ऋतेरथ क्षयं पुष्पैः किरन्तो हरिमीडिरे सुराः
( अनुष्टुप् ) एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः
अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शनः
यशोदायाः सुतां कन्यां देवक्याः कृष्णमेव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता
न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः । निशम्य तद्भोजपतिः कोपात् प्रचलितेन्द्रियः