अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः। जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः
शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्। अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम्
युग्मगीतं; गोचारणाय वनं गतस्य भगवतो गोपीजनकृतं गुणगानम् - श्रीशुक उवाच - ( अनुष्टुप् ) गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान्
श्रीगोप्य ऊचुः - ( स्वागता ) वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः
व्योमयानवनिताः सह सिद्धैः विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः
हन्त चित्रमबलाः श्रृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन्
बर्हिणस्तबकधातुपलाशैः बद्धमल्लपरिबर्हविडम्बः । कर्हिचित्सबल आलि स गोपैः गाः समाह्वयति यत्र मुकुन्दः
तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः
( मिश्र ) अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीः वेणुनाह्वयति गाः स यदा हि
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवः ससृजुः स्म
दर्शनीयतिलको वनमाला दिव्यगन्धतुलसीमधुमत्तैः । अलिकुलैरलघु गीतामभीष्टं आद्रियन् यर्हि सन्धितवेणुः
सरसि सारसहंसविहङ्गाः चारुगीतहृतचेतस एत्य । हरिमुपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम्
महदतिक्रमणशङ्कितचेता मन्दमन्दमनुगर्जति मेघः । सुहृदमभ्यवर्षत् सुमनोभिः छायया च विदधत्प्रतपत्रम्
विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुरनयत् स्वरजातीः
सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वाः
निजपदाब्जदलैर्ध्वजवज्र नीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिरीडितवेणुः
व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा
मणिधरः क्वचिदागणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनोऽनुचरस्य कदांसे प्रक्षिपन् भुजमगायत यत्र
क्वणितवेणुरववञ्चितचित्ताः कृष्णमन्वसत कृष्णगृहिण्यः । गुणगणार्णमनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः
( स्वागता ) कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुरनघे तव वत्सो नर्मदः प्रणयिणां विजहार
मन्दवायुरुपवात्यनकूलं मानयन् मलयजस्पर्शेन । वन्दिनस्तमुपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः
वत्सलो व्रजगवां यदगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनमुपोह्य दिनान्ते गीतवेणुरनुगेडितकीर्तिः
उत्सवं श्रमरुचापि दृशीनां उन्नय खुररजश्छुरितस्रक् । दित्सयैति सुहृदासिष एष देवकीजठरभूरुडुराजः
( मिश्र ) मदविघूर्णितलोचन ईषन् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या
यदुपतिर्द्विरदराजविहारो यामिनीपतिरिवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम्
श्रीशुक उवाच - ( अनुष्टुप् ) एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरेऽहःसु तच्चित्ताः तन्मनस्का महोदयाः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे गोपिकायुगलगीतं नाम पञ्चत्रिंशोऽध्यायः
अरिष्टासुरवधः, कंसस्य अक्रूरं प्रति नन्दगोकुल गमनायादेशश्च - श्री शुक उवाच - ( अनुष्टुप् ) अथ तर्ह्यागतो गोष्ठं अरिष्टो वृषभासुरः । महीं महाककुत्कायः कम्पयन् खुरविक्षताम्