को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः
सर्प उवाच। अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना
शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः। यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः
तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन्
प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते। अनुजानीहि मां देव सर्वलोकेश्वरेश्वर
ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्। यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च। सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः
निशाम्य कृष्णस्य तदात्मवैभवं। व्रजौकसो विस्मितचेतसस्ततः। समाप्य तस्मिन्नियमं पुनर्व्रजं। नृपाययुस्तत्कथयन्त आदृताः
कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम्
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ
निशामुखं मानयन्तावुदितोडुपतारकम्। मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम्
गोप्यस्तद्गीतमाकर्ण्य मूर्च्छिता नाविदन्नृप। स्रंसद्दुकूलमात्मानं स्रस्तकेशस्रजं ततः
एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत्। शङ्खचूड इति ख्यातो धनदानुचरोऽभ्यगात्
तयोर्निरीक्षतो राजंस्तन्नाथं प्रमदाजनम्। क्रोशन्तं कालयामास दिश्युदीच्यामशङ्कितः
क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम्। यथा गा दस्युना ग्रस्ता भ्रातरावन्वधावताम्
मा भैष्टेत्यभयारावौ शालहस्तौ तरस्विनौ। आसेदतुस्तं तरसा त्वरितं गुह्यकाधमम्
स वीक्ष्य तावनुप्राप्तौ कालमृत्यू इवोद्विजन्। विसृज्य स्त्रीजनं मूढः प्राद्रवज्जीवितेच्छया
तमन्वधावद्गोविन्दो यत्र यत्र स धावति। जिहीर्षुस्तच्छिरोरत्नं तस्थौ रक्षन्स्त्रियो बलः
अविदूर इवाभ्येत्य शिरस्तस्य दुरात्मनः। जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः
शङ्खचूडं निहत्यैवं मणिमादाय भास्वरम्। अग्रजायाददात्प्रीत्या पश्यन्तीनां च योषिताम्
युग्मगीतं; गोचारणाय वनं गतस्य भगवतो गोपीजनकृतं गुणगानम् - श्रीशुक उवाच - ( अनुष्टुप् ) गोप्यः कृष्णे वनं याते तमनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर्दुःखेन वासरान्
श्रीगोप्य ऊचुः - ( स्वागता ) वामबाहुकृतवामकपोलो वल्गितभ्रुरधरार्पितवेणुम् । कोमलाङ्गुलिभिराश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः
व्योमयानवनिताः सह सिद्धैः विस्मितास्तदुपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः
हन्त चित्रमबलाः श्रृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुरयमार्तजनानां नर्मदो यर्हि कूजितवेणुः
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रमिवासन्
बर्हिणस्तबकधातुपलाशैः बद्धमल्लपरिबर्हविडम्बः । कर्हिचित्सबल आलि स गोपैः गाः समाह्वयति यत्र मुकुन्दः
तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजोऽनिलनीतम् । स्पृहयतीर्वयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः
( मिश्र ) अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीः वेणुनाह्वयति गाः स यदा हि