किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः
( वसंततिलका ) यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः
( अनुष्टुप् ) गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक्
अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत्
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः
( वसंततिलका ) विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः
अजगरमुखात् अनन्दस्य मोचनम्,अजगरस्य पूर्वविद्याधरप्राप्ति; शंखचूड वधः । श्रीशुक उवाच। एकदा देवयात्रायां गोपाला जातकौतुकाः। अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम्
तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्। आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम्
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति
ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः। रजनीं तां महाभागा नन्दसुनन्दकादयः
कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः। यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत्
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्। सर्पो मां ग्रसते तात प्रपन्नं परिमोचय
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः
स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम्
तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम्। दीप्यमानेन वपुषा पुरुषं हेममालिनम्
को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः
सर्प उवाच। अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना
शापो मेऽनुग्रहायैव कृतस्तैः करुणात्मभिः। यदहं लोकगुरुणा पदा स्पृष्टो हताशुभः
तं त्वाहं भवभीतानां प्रपन्नानां भयापहम्। आपृच्छे शापनिर्मुक्तः पादस्पर्शादमीवहन्
प्रपन्नोऽस्मि महायोगिन्महापुरुष सत्पते। अनुजानीहि मां देव सर्वलोकेश्वरेश्वर
ब्रह्मदण्डाद्विमुक्तोऽहं सद्यस्तेऽच्युत दर्शनात्। यन्नाम गृह्णन्नखिलान्श्रोतॄनात्मानमेव च। सद्यः पुनाति किं भूयस्तस्य स्पृष्टः पदा हि ते
इत्यनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च। सुदर्शनो दिवं यातः कृच्छ्रान्नन्दश्च मोचितः
निशाम्य कृष्णस्य तदात्मवैभवं। व्रजौकसो विस्मितचेतसस्ततः। समाप्य तस्मिन्नियमं पुनर्व्रजं। नृपाययुस्तत्कथयन्त आदृताः
कदाचिदथ गोविन्दो रामश्चाद्भुतविक्रमः। विजह्रतुर्वने रात्र्यां मध्यगौ व्रजयोषिताम्
उपगीयमानौ ललितं स्त्रीजनैर्बद्धसौहृदैः। स्वलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ
निशामुखं मानयन्तावुदितोडुपतारकम्। मल्लिकागन्धमत्तालि जुष्टं कुमुदवायुना
जगतुः सर्वभूतानां मनःश्रवणमङ्गलम्। तौ कल्पयन्तौ युगपत्स्वरमण्डलमूर्च्छितम्