सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः
( मिश्र ) ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः
एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः
श्रीपरीक्षिदुवाच - ( अनुष्टुप् ) संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः
स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम्
आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत
श्रीशुक उवाच - धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा
नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम्
ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत्
कुशलाचरितेनैषां इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो
किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः
( वसंततिलका ) यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः
( अनुष्टुप् ) गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक्
अनुग्रहाय भूतानां मानुषं देहमास्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत्
नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः
ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः
( वसंततिलका ) विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः
अजगरमुखात् अनन्दस्य मोचनम्,अजगरस्य पूर्वविद्याधरप्राप्ति; शंखचूड वधः । श्रीशुक उवाच। एकदा देवयात्रायां गोपाला जातकौतुकाः। अनोभिरनडुद्युक्तैः प्रययुस्तेऽम्बिकावनम्
तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम्। आनर्चुरर्हणैर्भक्त्या देवीं च णृपतेऽम्बिकाम्
गावो हिरण्यं वासांसि मधु मध्वन्नमादृताः। ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयतामिति
ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः। रजनीं तां महाभागा नन्दसुनन्दकादयः
कश्चिन्महानहिस्तस्मिन्विपिनेऽतिबुभुक्षितः। यदृच्छयागतो नन्दं शयानमुरगोऽग्रसीत्
स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महानयम्। सर्पो मां ग्रसते तात प्रपन्नं परिमोचय
तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः। ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुरुल्मुकैः
अलातैर्दह्यमानोऽपि नामुञ्चत्तमुरङ्गमः। तमस्पृशत्पदाभ्येत्य भगवान्सात्वतां पतिः
स वै भगवतः श्रीमत्पादस्पर्शहताशुभः। भेजे सर्पवपुर्हित्वा रूपं विद्याधरार्चितम्
तमपृच्छद्धृषीकेशः प्रणतं समवस्थितम्। दीप्यमानेन वपुषा पुरुषं हेममालिनम्
को भवान्परया लक्ष्म्या रोचतेऽद्भुतदर्शनः। कथं जुगुप्सितामेतां गतिं वा प्रापितोऽवशः
सर्प उवाच। अहं विद्याधरः कश्चित्सुदर्शन इति श्रुतः। श्रिया स्वरूपसम्पत्त्या विमानेनाचरन्दिशः
ऋषीन्विरूपाङ्गिरसः प्राहसं रूपदर्पितः। तैरिमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना