वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः । न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् । हेयोपादेयरहितं आरूढं पदमीक्षते
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते
एतावानेव योगेन समग्रेणेह योगिनः । युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद्यतः
एतद्वै श्रद्धया भक्त्या योगाभ्यासेन नित्यशः । समाहितात्मा निःसङ्गो विरक्त्या परिपश्यति
इत्येतत्कथितं गुर्वि ज्ञानं तद्ब्रह्मदर्शनम् । येन अनुबुद्ध्यते तत्त्वं प्रकृतेः पुरुषस्य च
यथेन्द्रियैः पृथग्द्वारैः अर्थो बहुगुणाश्रयः । एको नानेयते तद्वद् भगवान् शास्त्रवर्त्मभिः
क्रियया क्रतुभिर्दानैः तपःस्वाध्यायमर्शनैः । आत्मेन्द्रियजयेनापि सन्न्यासेन च कर्मणाम्
योगेन विविधाङ्गेन भक्तियोगेन चैव हि । धर्मेणोभयचिह्नेन यः प्रवृत्तिनिवृत्तिमान्
आत्मतत्त्वावबोधेन वैराग्येण दृढेन च । ईयते भगवानेभिः सगुणो निर्गुणः स्वदृक्
प्रावोचं भक्तियोगस्य स्वरूपं ते चतुर्विधम् । कालस्य चाव्यक्तगतेः योऽन्तर्धावति जन्तुषु
जीवस्य संसृतीर्बह्वीः अविद्याकर्म निर्मिताः । यास्वङ्ग प्रविशन्नात्मा न वेद गतिमात्मनः
नैतत्खलायोपदिशेन् नाविनीताय कर्हिचित् । न स्तब्धाय न भिन्नाय नैव धर्मध्वजाय च
न लोलुपायोपदिशेत् न गृहारूढचेतसे । नाभक्ताय च मे जातु न मद्भक्तद्विषामपि
श्रद्दधानाय भक्ताय विनीताय अनसूयवे । भूतेषु कृतमैत्राय शुश्रूषाभिरताय च
बहिर्जातविरागाय शान्तचित्ताय दीयताम् । निर्मत्सराय शुचये यस्याहं प्रेयसां प्रियः
य इदं श्रृणुयाद् अम्ब श्रद्धया पुरुषः सकृत् । यो वाभिधत्ते मच्चित्तः स ह्येति पदवीं च मे
महारासवर्णनं; परीक्षित्कृत शंकायाः शुकद्वारा समाधानं च - श्रीशुक उवाच - ( अनुष्टुप् ) इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर्विरहजं तापं तदङ्गोपचिताशिषः
तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः
रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः
प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः । यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम्
दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् । ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम्
वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले
तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा
( शार्दूलविक्रीडित ) पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः । भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो । गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः
( अनुष्टुप् ) उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम्
काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात्