भगवतः प्रादुर्भावः गोपीनां आश्वासनं च - श्रीशुक उवाच - ( अनुष्टुप् ) इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम्
काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा । काचिद् दधार तद्बाहुं अंसे चन्दनरूषितम्
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात्
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा
अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता
सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः
ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा
ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम्
शरच्चन्द्रांशुसन्दोह ध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरला चितकोमलवालुकम्
( मिश्र ) तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैः अचीक्लृपन्नासनमात्मबन्धवे
तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतोऽर्चितः त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत्
सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे
श्रीगोप्य ऊचुः - ( अनुष्टुप् ) भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः
श्रीभगवानुवाच - मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा
भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः
भजतोऽपि न वै केचिद् भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः
( मिश्र ) नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद
एवं मदर्थोज्झितलोकवेद स्वानां हि वो मय्यनुवृत्तयेऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः
न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीसान्त्वनं नाम द्वात्रिंशोऽध्यायः
वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं यद्ब्रह्मदर्शनम्
यदास्य चित्तमर्थेषु समेष्विन्द्रियवृत्तिभिः । न विगृह्णाति वैषम्यं प्रियं अप्रियमित्युत
स तदैवात्मनात्मानं निःसङ्गं समदर्शनम् । हेयोपादेयरहितं आरूढं पदमीक्षते
ज्ञानमात्रं परं ब्रह्म परमात्मेश्वरः पुमान् । दृश्यादिभिः पृथग्भावैः भगवान् एक ईयते
एतावानेव योगेन समग्रेणेह योगिनः । युज्यतेऽभिमतो ह्यर्थो यद् असङ्गस्तु कृत्स्नशः
ज्ञानमेकं पराचीनैः इन्द्रियैर्ब्रह्म निर्गुणम् । अवभात्यर्थरूपेण भ्रान्त्या शब्दादिधर्मिणा
यथा महान् अहंरूपः त्रिवृत् पञ्चविधः स्वराट् । एकादशविधस्तस्य वपुरण्डं जगद्यतः