( वसंततिलका ) इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च शंतमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत
सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्वन्ताय चात्मनः
भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् । अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्
यद्यसद्भि पथि पुनः शिश्नोदरकृतोद्यमैः । आस्थितो रमते जन्तुः तमो विशति पूर्ववत्
सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु । सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः । योषित्सङ्गात् यथा पुंसो यथा तत्सङ्गिसङ्गतः
प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः । रोहिद्भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् । ऋषिं नारायणमृते योषिन् मय्येह मायया
बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम्
सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य
योपयाति शनैर्माया योषिद् देवविनिर्मिता । तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्
यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् । स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्
तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर्गायनं यथा
देहेन जीवभूतेन लोकात् लोकमनुव्रजन् । भुञ्जान एव कर्माणि करोत्यविरतं पुमान्
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः । तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा । तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम्
यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः
तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया । मायाविरचिते लोके चरेन्न्यस्य कलेवरम्
भगवतः प्रादुर्भावः गोपीनां आश्वासनं च - श्रीशुक उवाच - ( अनुष्टुप् ) इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः
तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः
तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत् सर्वाः तन्वः प्राणमिवागतम्
काचित् कराम्बुजं शौरेः जगृहेऽञ्जलिना मुदा । काचिद् दधार तद्बाहुं अंसे चन्दनरूषितम्
काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात्
एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा
अपरानिमिषद् दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा
तं काचिन्नेत्ररन्ध्रेण हृदिकृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता
सर्वास्ताः केशवालोक परमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः
ताभिर्विधूतशोकाभिः भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा