( वसंततिलका ) यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद् व्यथते न किं स्वित् कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः
रामपत्न्यश्च तद्देहं उपगुह्याग्निमाविशन् । वसुदेवपत्न्यस्तद्गात्रं प्रद्युम्नादीन् हरेः स्नुषाः । कृष्णपत्न्योऽविशन्नग्निं रुक्मिण्याद्याः तदात्मिकाः
अर्जुनः प्रेयसः सख्युः कृष्णस्य विरहातुरः । आत्मानं सांत्वयामास कृष्णगीतैः सदुक्तिभिः
बंधूनां नष्टगोत्राणां अर्जुनः सांपरायिकम् । हतानां कारयामास यथावद् अनुपूर्वशः
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद् भगवदालयम्
नित्यं सन्निहितस्तत्र भगवान् मधुसूदनः । स्मृत्याशेषाशुभहरं सर्वमङ्गलमङ्गलम्
स्त्रीबालवृद्धानादाय हतशेषान् धनञ्जयः । इंद्रप्रस्थं समावेश्य वज्रं तत्राभ्यषेचयत्
श्रुत्वा सुहृद् वधं राजन् अर्जुनात्ते पितामहाः । त्वां तु वंशधरं कृत्वा जग्मुः सर्वे महापथम्
य एतद् देवदेवस्य विष्णोः कर्माणि जन्म च । कीर्तयेत् श्रद्धया मर्त्यः सर्वपापैः प्रमुच्यते
( वसंततिलका ) इत्थं हरेर्भगवतो रुचिरावतार वीर्याणि बालचरितानि च शंतमानि । अन्यत्र चेह च श्रुतानि गृणन् मनुष्यो भक्तिं परां परमहंसगतौ लभेत
सह देहेन मानेन वर्धमानेन मन्युना । करोति विग्रहं कामी कामिष्वन्ताय चात्मनः
भूतैः पञ्चभिरारब्धे देहे देह्यबुधोऽसकृत् । अहं ममेत्यसद्ग्राहः करोति कुमतिर्मतिम्
यद्यसद्भि पथि पुनः शिश्नोदरकृतोद्यमैः । आस्थितो रमते जन्तुः तमो विशति पूर्ववत्
सत्यं शौचं दया मौनं बुद्धिः श्रीर्ह्रीर्यशः क्षमा । शमो दमो भगश्चेति यत्सङ्गाद्याति सङ्क्षयम्
तेष्वशान्तेषु मूढेषु खण्डितात्मस्वसाधुषु । सङ्गं न कुर्याच्छोच्येषु योषित् क्रीडामृगेषु च
न तथास्य भवेन्मोहो बन्धश्चान्यप्रसङ्गतः । योषित्सङ्गात् यथा पुंसो यथा तत्सङ्गिसङ्गतः
प्रजापतिः स्वां दुहितरं दृष्ट्वा तद् रूपधर्षितः । रोहिद्भूतां सोऽन्वधावद् ऋक्षरूपी हतत्रपः
तत्सृष्टसृष्टसृष्टेषु को न्वखण्डितधीः पुमान् । ऋषिं नारायणमृते योषिन् मय्येह मायया
बलं मे पश्य मायायाः स्त्रीमय्या जयिनो दिशाम् । या करोति पदाक्रान्तान् भ्रूविजृम्भेण केवलम्
सङ्गं न कुर्यात्प्रमदासु जातु योगस्य पारं परमारुरुक्षुः । मत्सेवया प्रतिलब्धात्मलाभो वदन्ति या निरयद्वारमस्य
योपयाति शनैर्माया योषिद् देवविनिर्मिता । तामीक्षेतात्मनो मृत्युं तृणैः कूपमिवावृतम्
यां मन्यते पतिं मोहान् मन्मायामृषभायतीम् । स्त्रीत्वं स्त्रीसङ्गतः प्राप्तो वित्तापत्यगृहप्रदम्
तां आत्मनो विजानीयात् पत्यपत्यगृहात्मकम् । दैवोपसादितं मृत्युं मृगयोर्गायनं यथा
देहेन जीवभूतेन लोकात् लोकमनुव्रजन् । भुञ्जान एव कर्माणि करोत्यविरतं पुमान्
जीवो ह्यस्यानुगो देहो भूतेन्द्रियमनोमयः । तन्निरोधोऽस्य मरणं आविर्भावस्तु सम्भवः
द्रव्योपलब्धिस्थानस्य द्रव्येक्षायोग्यता यदा । तत्पञ्चत्वं अहंमानाद् उत्पत्तिर्द्रव्यदर्शनम्
यथाक्ष्णोर्द्रव्यावयव दर्शनायोग्यता यदा । तदैव चक्षुषो द्रष्टुः द्रष्टृत्वायोग्यतानयोः
तस्मान्न कार्यः सन्त्रासो न कार्पण्यं न सम्भ्रमः । बुद्ध्वा जीवगतिं धीरो मुक्तसङ्गश्चरेदिह
सम्यग्दर्शनया बुद्ध्या योगवैराग्ययुक्तया । मायाविरचिते लोके चरेन्न्यस्य कलेवरम्