यत्फलं नास्ति तपसा न योगेन समाधिना । अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत्
यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् । तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति
योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति । किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति
शौनक उवाच - (इंद्रवंशा) साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्मान् विगणय्य साम्प्रतम् । निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसूचकम्
सूत उवाच - (अनुष्टुप्) यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः । एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत्
उद्धव उवाच - त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च । मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह
आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः । तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा
तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् । अन्यो न दृश्यते त्राता त्वत्तः कमललोचन
अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज । भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः
त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले । निर्गुणोपासने कष्टं अतः किंचिद् विचारय
इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः । भक्तावलम्बनार्थाय किं विधेयं मयेति च
स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् । तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम्
तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः । सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी
सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् । साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः
दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च । कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः
अन्यथा वैष्णवी माया देवैरपि सुदुस्त्यजा । कथं त्याज्या भवेत् पुम्भिः सप्ताहोऽतः प्रकीर्तितः
सूत उवाच - (इंद्रवज्रा) एवं नगाहश्रवणोरुधर्मे प्रकाश्यमाने ऋषिभिः सभायाम् । आश्चर्यमेकं समभूत् तदानीं तदुच्यते संश्रृणु शौनको त्वम्
भक्तिः सुतौ तौ तरुणौ गृहीत्वा प्रेमैकरूपा सहसाऽविरासीत् । श्रीकृष्ण गोविन्द हरे मुरारे नाथेति नामानि मुहुर्वदन्ती
तां चागतां भागवतार्थभूषां सुचारुवेषां ददृशुः सदस्याः । कथं प्रविष्टा कथमागतेयं मध्ये मुनीनामिति तर्कयन्तः
ऊचुः कुमारा वचनं तदानीं कथार्थतो निश्पतिताधुनेयम् । एवं गिरः सा ससुता निशम्य सनत्कुमारं निजगाद नम्रा
भक्तिरुवाच - (उपेंद्रवज्रा) भवद्भिः अद्यैव कृतास्मि पुष्टा कलिप्रणष्टापि कथारसेन । क्वाहं तु तिष्ठाम्यधुना ब्रुवन्तु ब्राह्मा इदं तां गिरमूचिरे ते
(इंद्रवज्रा) भक्तेषु गोविन्दसरूपकर्त्री प्रेमैकधर्त्री भवरोगहन्त्री । सा त्वं च तिष्ठस्व सुधैर्यसंश्रया निरंतरं वैष्णवमानसानि
(उपेंद्रवज्रा) ततोऽपि दोषाः कलिजा इमे त्वां द्रष्टुं न शक्ताः प्रभवोऽपि लोके । एवं तदाज्ञावसरेऽपि भक्तिः तदा निषण्णा हरिदासचित्ते
(मालिनी) सकलभुवनमध्ये निर्धनास्तेऽपि धन्या निवसति हृदि येषां श्रीहरेर्भक्तिरेका । हरिरपि निजलोकं सर्वथातो विहाय प्रविशति हृदि तेषां भक्तिसूत्रोपनद्धः
(वसंततिलका) ब्रूमोऽद्य ते किमधिकं महमानमेवं ब्रह्मात्मकस्य भुवि भागवताभिधस्य । यत्संश्रयात् निगदिते लभते सुवक्ता श्रोतापि कृष्णसमतामलमन्यधर्मैः
श्रीमद्भागवतमाहात्म्यम् - चतुर्थोऽध्यायः सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च सूत उवाच - (अनुष्टुप्) अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् । निजलोकं परित्यज्य भगवान् भक्तवत्सलः
वनमाली घनश्यामः पीतवासा मनोहरः । काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः
त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः । कोटिमन्मथलावण्यो हरिचन्दनचर्चितः
परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः । आविवेश स्वभक्तानां हृदयानि अमलानि च
वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः । तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः