* पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ 10.30.
इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ 10.30.
कस्याचित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ 10.30.
दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ 10.30.
कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ 10.30.
आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ 10.30.
कस्याञ्चित्स्वभुजं न्यस्य चलन्त्याहापरा ननु । कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः ॥ 10.30.
मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ 10.30.
आरुह्यैका पदाक्रम्य शिरस्याहापरां नृप । दुष्टाहे गच्छ जातोऽहं खलानां ननु दण्डकृत् ॥ 10.30.
तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ 10.30.
बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्विति । भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ 10.30.
एवं कृष्णं पृच्छमाना व्र्ण्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ 10.30.
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज वज्राङ्कुशयवादिभिः ॥ 10.30.
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ 10.30.
कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ 10.30.
अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ 10.30.
धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशौ रमा देवी दधुर्मूर्ध्न्यघनुत्तये ॥ 10.30.
तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः पदानि यत्यैकापहृत्य गोपीनां रहो भुन्क्तेऽच्युताधरम् । न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ 10.30.
इमान्यधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्पहेतोर्महात्मना ॥ 10.30.
अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ 10.30.
केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ 10.30.
रेमे तया चात्मरत आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ 10.30.
इत्येवं दर्शयन्त्यस्ताश्चेरुर्गोप्यो विचेतसः । यां गोपीमनयत्कृष्णो विहायान्याः स्त्रियो वने ॥ 10.30.
सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ 10.30.
ततो गत्वा वनोद्देशं दृप्ता केशवमब्रवीत् । न पारयेऽहं चलितुं नय मां यत्र ते मनः ॥ 10.30.
एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ 10.30.
हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ 10.30.
श्रीशुक उवाच अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरितः । ददृशुः प्रियविश्लेषान्मोहितां दुःखितां सखीम् ॥ 10.30.
तया कथितमाकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद्विस्मयं परमं ययुः ॥ 10.30.
ततोऽविशन् वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ 10.30.