स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तः चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत् तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण
राजोवाच - (अनुष्टुप्) श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत । नैतज्जानन्ति उपाध्यायाः किं न ब्रूयुर्विदुर्यदि
संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् । ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः
कर्माण्यारभते येन पुमानिह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यदश्नुते
इति वेदविदां वादः श्रूयते तत्र तत्र ह । कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते
नारद उवाच - येनैवारभते कर्म तेनैवामुत्र तत्पुमान् । भुङ्क्ते हि अव्यवधानेन लिङ्गेन मनसा स्वयम्
शयानं इमं उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा
ममैते मनसा यद्यद् असौ अहं इति ब्रुवन् । गृह्णीयात् तत्पुमान् राद्धं कर्म येन पुनर्भवः
यथानुमीयते चित्तं उभयैरिन्द्रियेहितैः । एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः
नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृगात्मनि
तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम् । श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति
मन एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यतः
अदृष्टमश्रुतं चात्र क्वचित् मनसि दृश्यते । यथा तथानुमन्तव्यं देशकालक्रियाश्रयम्
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि । तमश्चन्द्रमसीवेदं उपरज्यावभासते
नाहं ममेति भावोऽयं पुरुषे व्यवधीयते । यावद्बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान्
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि
गर्भे बाल्येऽप्यपौष्कल्याद् एकादशविधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा
एवं पञ्चविधं लिङ्गं त्रिवृत्षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते
अनेन पुरुषो देहान् उपादत्ते विमुञ्चति । हर्षं शोकं भयं दुःखं सुखं चानेन विन्दति
यथा तृणजलूकेयं नापयात्यपयाति च । न त्यजेन्म्रियमाणोऽपि प्राग्देहाभिमतिं जनः
अदृष्टं दृष्टवन्नङ्क्षेद्भूतं स्वप्नवदन्यथा । भूतं भवद्भविष्यच्च सुप्तं सर्वरहोरहः
यदाक्षैश्चरितान् ध्यायन् कर्माण्याचिनुतेऽसकृत् । सति कर्मण्यविद्यायां बन्धः कर्मण्यनात्मनः
अतस्तद् अपवादार्थं भज सर्वात्मना हरिम् । पश्यन् तदात्मकं विश्वं स्थित्युत्पत्त्यप्यया यतः
मैत्रेय उवाच - भागवतमुख्यो भगवान् नारदो हंसयोर्गतिम् । प्रदर्श्य ह्यमुमामन्त्र्य सिद्धलोकं ततोऽगमत्
प्राचीनबर्ही राजर्षिः प्रजासर्गाभिरक्षणे । आदिश्य पुत्रानगमत् तपसे कपिलाश्रमम्
तत्रैकाग्रमना धीरो गोविन्द चरणाम्बुजम् । विमुक्तसङ्गोऽनुभजन् भक्त्या तत्साम्यतामगात्
एतदध्यात्मपारोक्ष्यं गीतं देवर्षिणानघ । यः श्रावयेत् यः श्रृणुयात् स लिङ्गेन विमुच्यते
एतन्मुकुन्दयशसा भुवनं पुनानं देवर्षिवर्यमुखनिःसृतमात्मशौचम् । यः कीर्त्यमानमधिगच्छति पारमेष्ठ्यं नास्मिन् भवे भ्रमति मुक्तसमस्तबन्धः