( वसंततिलका ) बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणां उत्तम्भयन् रतिपतिं रमयाञ्चकार
( अनुष्टुप् ) एवं भगवतः कृष्णात् लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि
तासां तत् सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे एकोन्त्रिंशोऽध्यायः
( मालिनी ) भवभयमपहन्तुं ज्ञानविज्ञानसारं निगमकृद् उपजह्रे भृङ्गवद् वेदसारम् । अमृतमुदधितश्चा पाययद् भृत्यवर्गान् पुरुषं ऋषभमाद्यं कृष्णसंज्ञं नतोऽस्मि
हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः । तत्पादमूलं शरणं यतः क्षेमो नृणामिह
स वै प्रियतमश्चात्मा यतो न भयमण्वपि । इति वेद स वै विद्वान् यो विद्वान् स गुरुर्हरिः
नारद उवाच - प्रश्न एवं हि सञ्छिन्नो भवतः पुरुषर्षभ । अत्र मे वदतो गुह्यं निशामय सुनिश्चितम्
क्षुद्रं चरं सुमनसां शरणे मिथित्वा रक्तं षडङ्घ्रिगणसामसु लुब्धकर्णम् । अग्रे वृकान् असुतृपोऽविगणय्य यान्तं पृष्ठे मृगं मृगय लुब्धकबाणभिन्नम्
अस्यार्थः - सुमनःसमधर्मणां स्त्रीणां शरण आश्रमे पुष्पमधु गन्धवत् क्षुद्रतमं । काम्यकर्मविपाकजं कामसुखलवं जैह्व्यौपस्थ्यादि विचिन्वन्तं मिथुनीभूय तद् अभिनिवेशित मनसं । षडङ्घ्रिगण सामगीतवत् अतिमनोहर वनितादि जन आलापेषु अतितरां अति प्रलोभित कर्णमग्रे । वृकयूथवदात्मन आयुर्हरतो अहोरात्रान् तान् काल लव विशेषान् अविगणय्य गृहेषु विहरन्तं पृष्ठत एव । परोक्षमनुप्रवृत्तो लुब्धकः कृतान्तोऽन्तः शरेण यमिह पराविध्यति तं इमं आत्मानमहो । राजन् भिन्नहृदयं द्रष्टुमर्हसीति
स त्वं विचक्ष्य मृगचेष्टितमात्मनोऽन्तः चित्तं नियच्छ हृदि कर्णधुनीं च चित्ते । जह्यङ्गनाश्रममसत् तमयूथगाथं प्रीणीहि हंसशरणं विरम क्रमेण
राजोवाच - (अनुष्टुप्) श्रुतमन्वीक्षितं ब्रह्मन् भगवान् यदभाषत । नैतज्जानन्ति उपाध्यायाः किं न ब्रूयुर्विदुर्यदि
संशयोऽत्र तु मे विप्र सञ्छिन्नस्तत्कृतो महान् । ऋषयोऽपि हि मुह्यन्ति यत्र नेन्द्रियवृत्तयः
कर्माण्यारभते येन पुमानिह विहाय तम् । अमुत्रान्येन देहेन जुष्टानि स यदश्नुते
इति वेदविदां वादः श्रूयते तत्र तत्र ह । कर्म यत्क्रियते प्रोक्तं परोक्षं न प्रकाशते
नारद उवाच - येनैवारभते कर्म तेनैवामुत्र तत्पुमान् । भुङ्क्ते हि अव्यवधानेन लिङ्गेन मनसा स्वयम्
शयानं इमं उत्सृज्य श्वसन्तं पुरुषो यथा । कर्मात्मन्याहितं भुङ्क्ते तादृशेनेतरेण वा
ममैते मनसा यद्यद् असौ अहं इति ब्रुवन् । गृह्णीयात् तत्पुमान् राद्धं कर्म येन पुनर्भवः
यथानुमीयते चित्तं उभयैरिन्द्रियेहितैः । एवं प्राग्देहजं कर्म लक्ष्यते चित्तवृत्तिभिः
नानुभूतं क्व चानेन देहेनादृष्टमश्रुतम् । कदाचिद् उपलभ्येत यद् रूपं यादृगात्मनि
तेनास्य तादृशं राजन् लिङ्गिनो देहसम्भवम् । श्रद्धत्स्वाननुभूतोऽर्थो न मनः स्प्रष्टुमर्हति
मन एव मनुष्यस्य पूर्वरूपाणि शंसति । भविष्यतश्च भद्रं ते तथैव न भविष्यतः
अदृष्टमश्रुतं चात्र क्वचित् मनसि दृश्यते । यथा तथानुमन्तव्यं देशकालक्रियाश्रयम्
सर्वे क्रमानुरोधेन मनसीन्द्रियगोचराः । आयान्ति बहुशो यान्ति सर्वे समनसो जनाः
सत्त्वैकनिष्ठे मनसि भगवत्पार्श्ववर्तिनि । तमश्चन्द्रमसीवेदं उपरज्यावभासते
नाहं ममेति भावोऽयं पुरुषे व्यवधीयते । यावद्बुद्धिमनोऽक्षार्थ गुणव्यूहो ह्यनादिमान्
सुप्तिमूर्च्छोपतापेषु प्राणायनविघाततः । नेहतेऽहमिति ज्ञानं मृत्युप्रज्वारयोरपि
गर्भे बाल्येऽप्यपौष्कल्याद् एकादशविधं तदा । लिङ्गं न दृश्यते यूनः कुह्वां चन्द्रमसो यथा
अर्थे हि अविद्यमानेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा
एवं पञ्चविधं लिङ्गं त्रिवृत्षोडश विस्तृतम् । एष चेतनया युक्तो जीव इत्यभिधीयते