एवं यतन्तं विजने मामाहागोचरो गिराम् । गंभीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव
हन्तास्मिन् जन्मनि भवान् मा मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम्
सकृद् यद् दर्शितं रूपं एतत्कामाय तेऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान्
सत्सेवयाऽदीर्घया ते जाता मयि दृढा मतिः । हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात्