द्वादशात्मा प्रयागश्च कालं संवत्सरात्मकः । ब्राह्मणाश्चाग्निहोत्रं च सुरभिर्द्वादशी तथा
तुलसी च वसन्तश्च पुरुषोत्तम एव च । एतेषां तत्त्वतः प्राज्ञैः न पृथ्ग्भाव इष्यते
यश्च भागवतं शास्त्रं वाचयेत् अर्थतोऽनिशम् । जन्मकोटिकृतं पापं नश्यते नात्र संशयः
श्लोकार्धं श्लोकपादं वा पठेत् भागवतं च यः । नित्यं पुण्यं अवाप्नोति राजसूयाश्वमेधयोः
उक्तं भागवतं नित्यं कृतं च हरिचिन्तनम् । तुलसीपोषणं चैव धेनूनां सेवनं समम्
अन्तकाले तु येनैव श्रूयते शुकशास्त्रवाक् । प्रीत्या तस्यैव वैकुण्ठं गोविन्दोऽपि प्रयच्छति
हेमसिंहयुतं चैतत् वैष्णवाय ददाति च । कृष्णेन सह सायुज्यं स पुमान् लभते ध्रुवम्
(वसंततिलका) आजन्ममात्रमपि येन शठेन किंचित् चित्तं विधाय शुकशास्त्रकथा न पीता । चाण्डालवत् च खरवत् बत तेन नीतं मिथ्या स्वजन्म जननी जनिदुःखभाजा
जीवच्छवो निगदितः स तु पापकर्मा येन श्रुतं शुककथावचनं न किंचित् । धिक् तं नरं पशुसमं भुवि भाररूपम् एवं वदन्ति दिवि देवसमाजमुख्याः
(अनुष्टुप्) दुर्लभैव कथा लोके श्रीमद्भागवतोद्भवा । कोटिजन्मसमुत्थेन पुण्येनैव तु लभ्यते
तेन योगनिधे धीमन् श्रोतव्या सा प्रयत्नतः । दिनानां नियमो नास्ति सर्वदा श्रवणं मतम्
सत्येन ब्रह्मचर्येण सर्वदा श्रवणं मतम् । अशक्यत्वात् कलौ बोध्यो विशेषोऽत्र शुकाज्ञया
मनोवृत्तिजयश्चैव नियमाचरणं तथा । दीक्षां कर्तुं अशक्यत्वात् सप्ताहश्रवणं मतम्
श्रद्धातः श्रवणे नित्यं माघे तावद्धि यत्फलम् । तत्फलं शुकदेवेन सप्ताहश्रवणे कृतम्
मनसश्च अजयात् रोगात् पुंसां चैवायुषः क्षयात् । कलेर्दोषबहुत्वाच्च सप्ताहश्रवणं मतम्
यत्फलं नास्ति तपसा न योगेन समाधिना । अनायासेन तत्सर्वं सप्ताहश्रवणे लभेत्
यज्ञात् गर्जति सप्ताहः सप्ताहो गर्जति व्रतात् । तपसो गर्जति प्रोच्चैः तीर्थान्नित्यं हि गर्जति
योगात् गर्जति सप्ताहो ध्यानात् ज्ञानाच्च गर्जति । किं ब्रूमो गर्जनं तस्य रे रे गर्जति गर्जति
शौनक उवाच - (इंद्रवंशा) साश्चर्यमेतत्कथितं कथानकं ज्ञानादिधर्मान् विगणय्य साम्प्रतम् । निःश्रेयसे भागवतं पुराणं जातं कुतो योगविदादिसूचकम्
सूत उवाच - (अनुष्टुप्) यदा कृष्णो धरां त्यक्त्वा स्वपदं गन्तुमुद्यतः । एकादशं परिश्रुत्यापि उद्धवो वाक्यमब्रवीत्
उद्धव उवाच - त्वं तु यास्यसि गोविन्द भक्तकार्यं विधाय च । मच्चित्ते महती चिन्ता तां श्रुत्वा सुखमावह
आगतोऽयं कलिर्घोरो भविष्यन्ति पुनः खलाः । तत्संगेनैव सन्तोऽपि गमिष्यन्ति उग्रतां यदा
तदा भारवती भूमिः गोरूपेयं कमाश्रयेत् । अन्यो न दृश्यते त्राता त्वत्तः कमललोचन
अतः सस्तु दयां कृत्वा भक्तवत्सल मा व्रज । भक्तार्थं सगुणो जातो निराकारोऽपि चिन्मयः
त्वद् वियोगेन ते भक्ताः कथं स्थास्यन्ति भूतले । निर्गुणोपासने कष्टं अतः किंचिद् विचारय
इति उद्धववचः श्रुत्वा प्रभासेऽचिन्तयत् हरिः । भक्तावलम्बनार्थाय किं विधेयं मयेति च
स्वकीयं यद् भवेत् तेजः तच्च भागवतेऽदधात् । तिरोधाय प्रविष्टोऽयं श्रीमद् भागवतार्णवम्
तेनेयं वाङ्मयी मूर्तिः प्रत्यक्षा वर्तते हरेः । सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी
सप्ताहश्रवणं तेन सर्वेभ्योऽप्यधिकं कृतम् । साधनानि तिरस्कृत्य कलौ धर्मोऽयमीरितः
दुःखदारिद्र्य दौर्भाग्य पापप्रक्षालनाय च । कामक्रोध जयार्थं हि कलौ धर्मोऽयमीरितः