योगं निषेवतो नित्यं कायश्चेत् कल्पतामियात् । तत् श्रद्दध्यान्न मतिमान् योगमुत्सृज्य मत्परः
योगचर्यामिमां योगी विचरन् मदपाश्रयः । नान्तरायैर्विहन्येत निःस्पृहः स्वसुखानुभूः
अजानती प्रियतमं यदोपरतमङ्गना । सुस्थिरासनमासाद्य यथापूर्वमुपाचरत्
यदा नोपलभेताङ्घ्रौ ऊष्माणं पत्युरर्चती । आसीत् संविग्नहृदया यूथभ्रष्टा मृगी यथा
आत्मानं शोचती दीनं अबन्धुं विक्लवाश्रुभिः । स्तनौ आसिच्य विपिने सुस्वरं प्ररुरोद सा
उत्तिष्ठोत्तिष्ठ राजर्षे इमां उदधिमेखलाम् । दस्युभ्यः क्षत्रबन्धुभ्यो बिभ्यतीं पातुमर्हसि
एवं विलपन्ती बाला विपिनेऽनुगता पतिम् । पतिता पादयोर्भर्तू रुदत्यश्रूण्यवर्तयत्
चितिं दारुमयीं चित्वा तस्यां पत्युः कलेवरम् । आदीप्य चानुमरणे विलपन्ती मनो दधे
तत्र पूर्वतरः कश्चित् सखा ब्राह्मण आत्मवान् । सान्त्वयन्वल्गुना साम्ना तामाह रुदतीं प्रभो
ब्राह्मण उवाच - का त्वं कस्यासि को वायं शयानो यस्य शोचसि । जानासि किं सखायं मां येनाग्रे विचचर्थ ह
अपि स्मरसि चात्मानं अविज्ञातसखं सखे । हित्वा मां पदमन्विच्छन् भौमभोगरतो गतः
हंसावहं च त्वं चार्य सखायौ मानसायनौ । अभूतामन्तरा वौकः सहस्रपरिवत्सरान्
स त्वं विहाय मां बन्धो गतो ग्राम्यमतिर्महीम् । विचरन् पदमद्राक्षीः कयाचिन् निर्मितं स्त्रिया
पञ्चारामं नवद्वारं एकपालं त्रिकोष्ठकम् । षट्कुलं पञ्चविपणं पञ्चप्रकृति स्त्रीधवम्
पञ्चेन्द्रियार्था आरामा द्वारः प्राणा नव प्रभो । तेजोऽबन्नानि कोष्ठानि कुलमिन्द्रियसङ्ग्रहः
विपणस्तु क्रियाशक्तिः भूतप्रकृतिरव्यया । शक्त्यधीशः पुमांस्त्वत्र प्रविष्टो नावबुध्यते
तस्मिंस्त्वं रामया स्पृष्टो रममाणोऽश्रुतस्मृतिः । तत्सङ्गादीदृशीं प्राप्तो दशां पापीयसीं प्रभो
न त्वं विदर्भदुहिता नायं वीरः सुहृत्तव । न पतिस्त्वं पुरञ्जन्या रुद्धो नवमुखे यया
माया ह्येषा मया सृष्टा यत्पुमांसं स्त्रियं सतीम् । मन्यसे नोभयं यद्वै हंसौ पश्यावयोर्गतिम्
अहं भवान्न चान्यस्त्वं त्वमेवाहं विचक्ष्व भोः । न नौ पश्यन्ति कवयः छिद्रं जातु मनागपि
यथा पुरुष आत्मानं एकं आदर्शचक्षुषोः । द्विधाभूतमवेक्षेत तथैवान्तरमावयोः
एवं स मानसो हंसो हंसेन प्रतिबोधितः । स्वस्थस्तद्व्यभिचारेण नष्टामाप पुनः स्मृतिम्
बर्हिष्मन्नेतदध्यात्मं पारोक्ष्येण प्रदर्शितम् । यत्परोक्षप्रियो देवो भगवान्विश्वभावनः
वेणुनादं श्रुत्वा आगतानां गोपीनां श्रीकृष्णेनसह संवादः; रासारम्भः; तासां मानापनोदाय भगवतो अंतर्धानं च - श्रीशुक उवाच - ( अनुष्टुप् ) भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः
( मिश्र ) तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः । स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः
दृष्ट्वा कुमुद्वन्तं अखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् । वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम्
निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः
( अनुष्टुप् ) दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयोऽधिश्रित्य संयावं अनुद्वास्यापरा ययुः
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्योऽपास्य भोजनम्
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः