जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम्
सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत्
विज्ञानमेतत् त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम्
न यत्पुरस्ताद् उत यन्न पश्चान् मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तदेव तत् स्यादिति मे मनीषा
अविद्यमानोऽप्यवभासते यो वैकारिको राजससर्ग एषः । ब्रह्म स्वयं ज्योतिरतो विभाति ब्रह्मेन्द्रियार्थात्मविकारचित्रम्
एवं स्फुटं ब्रह्मविवेकहेतुभिः । परापवादेन विशारदेन । छित्त्वाऽऽत्मसन्देहमुपारमेत । स्वानन्दतुष्टोऽखिलकामुकेभ्यः
नात्मा वपुः पार्थिवमिन्द्रियाणि देवा ह्यसुर्वायुर्जलम् हुताशः । मनोऽन्नमात्रं धिषणा च सत्त्वम् अहङ्कृतिः खं क्षितिरर्थसाम्यम्
समाहितैः कः करणैर्गुणात्मभि र्गुणो भवेन्मत्सुविविक्तधाम्नः । विक्षिप्यमाणैरुत किं नु दूषणं । घनैरुपेतैर्विगतै रवेः किम्
यथा नभो वाय्वनलाम्बुभूगुणै र्गतागतैर्वर्तुगुणैर्न सज्जते । तथाक्षरं सत्त्वरजस्तमोमलै रहंमतेः संसृतिहेतुभिः परम्
तथापि सङ्गः परिवर्जनीयो गुणेषु मायारचितेषु तावत् । मद्भक्तियोगेन दृढेन यावद् रजो निरस्येत मनःकषायः
कुयोगिनो ये विहितान्तरायै र्मनुष्यभूतैस्त्रिदशोपसृष्टैः । ते प्राक्तनाभ्यासबलेन भूयो युञ्जन्ति योगं न तु कर्मतन्त्रम्
करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपतात् । न तत्र विद्वान् प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत् किमपीहमानं आत्मानमात्मस्थमतिर्न वेद
यदि स्म पश्यत्यसदिन्द्रियार्थं नानानुमानेन विरुद्धमन्यत् । न मन्यते वस्तुतया मनीषी स्वाप्नं यथोत्थाय तिरोदधानम्
पूर्वं गृहीतं गुणकर्मचित्रम् अज्ञानमात्मन्यविविक्तमङ्ग । निवर्तते तत्पुनरीक्षयैव न गृह्यते नापि विसृज्य आत्मा
यथा हि भानोरुदयो नृचक्षुषां तमो निहन्यान्न तु सद् विधत्ते । एवं समीक्षा निपुणा सती मे हन्यात्तमिस्रं पुरुषस्य बुद्धेः
एष स्वयंज्योतिरजोऽप्रमेयो महानुभूतिः सकलानुभूतिः । एकोऽद्वितीयो वचसां विरामे येनेषिता वागसवश्चरन्ति
( अनुष्टुप् ) एतावान् आत्मसम्मोहो यद् विकल्पस्तु केवले । आत्मन्नृते स्वमात्मानं अवलम्बो न यस्य हि
यन्नामाकृतिभिर्ग्राह्यं पञ्चवर्णमबाधितम् । व्यर्थेनाप्यर्थवादोऽयं द्वयं पण्डितमानिनाम्
योगिनोऽपक्वयोगस्य युञ्जतः काय उत्थितैः । उपसर्गैर्विहन्येत तत्रायं विहितो विधिः
योगधारणया कांश्चिद् आसनैर्धारणान्वितैः । तपोमन्त्रौषधैः कांश्चिद् उपसर्गान् विनिर्दहेत्
कांश्चित् ममानुध्यानेन नामसङ्कीर्तनादिभिः । योगेश्वरानुवृत्त्या वा हन्याद् अशुभदान्छनैः
केचिद् देहमिमं धीराः सुकल्पं वयसि स्थिरम् । विधाय विविधोपायैः अथ युञ्जन्ति सिद्धये
न हि तत् कुशलादृत्यं तदायासो ह्यपार्थकः । अन्तवत्त्वात् शरीरस्य फलस्येव वनस्पतेः