अर्चादिषु यदा यत्र श्रद्धा मां तत्र चार्चयेत् । सर्वभूतेष्वात्मनि च सर्वात्माहं अवस्थितः
एवं क्रियायोगपथैः पुमान्वैदिकतान्त्रिकैः । अर्चन् उभयतः सिद्धिं मत्तो विन्दत्यभीप्सिताम्
मदर्चां सम्प्रतिष्ठाप्य मन्दिरं कारयेद् दृढम् । पुष्पोद्यानानि रम्याणि पूजायात्रोत्सवाश्रितान्
पूजादीनां प्रवाहार्थं महापर्वस्वथान्वहम् । क्षेत्रापणपुरग्रामान् दत्त्वा मत्सार्ष्टितामियात्
प्रतिष्ठया सार्वभौमं सद्मना भुवनत्रयम् । पूजादिना ब्रह्मलोकं त्रिभिर्मत्साम्यतामियात्
मामेव नैरपेक्ष्येण भक्तियोगेन विन्दति । भक्तियोगं स लभते एवं यः पूजयेत माम्
यः स्वदत्तां परैर्दत्तां हरेत सुरविप्रयोः । वृत्तिं स जायते विड्भुग् वर्षाणां अयुतायुतम्
कर्तुश्च सारथेहेतोः अनुमोदितुरेव च । कर्मणां भागिनः प्रेत्य भूयो भूयसि तत्फलम्
विकालेऽवगाहनाद् वरुणदूतेन वरुणालयं नीतस्य नंदस्य भगवता पुनरनयनम् - श्रीशुक उवाच - ( अनुष्टुप् ) एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस्तु कालिन्द्यां द्वादश्यां जलमाविशत्
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरोऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टमुदकं निशि
चुक्रुशुस्तमपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस्तदुपश्रुत्य पितरं वरुणाहृतम् । तदन्तिकं गतो राजन् स्वानामभयदो विभुः
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वाऽऽह तद्दर्शनमहोत्सवः
श्रीवरुण उवाच - अद्य मे निभृतो देहो अद्यैवार्थोऽधिगतः प्रभो । त्वत्पादभाजो भगवन् अवापुः पारमध्वनः
नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना
अजानता मामकेन मूढेनाकार्यवेदिना । आनीतोऽयं तव पिता तद् भवान् क्षन्तुमर्हति
ममाप्यनुग्रहं कृष्ण कर्तुं अर्हस्यशेषदृक् । गोविन्द नीयतामेष पिता ते पितृवत्सल
श्रीशुक उवाच - एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्वपितरं बन्धूनां चावहन् मुदम्
नन्दस्त्वतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितोऽब्रवीत्
ते चौत्सुक्यधियो राजन् मत्वा गोपास्तमीश्वरम् । अपि नः स्वगतिं सूक्ष्मां उपाधास्यदधीश्वरः
इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतदचिन्तयत्
जनो वै लोक एतस्मिन् अविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन्
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयामास लोकं स्वं गोपानां तमसः परम्
सत्यं ज्ञानमनन्तं यद् ब्रह्म ज्योतिः सनातनम् । यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः
ते तु ब्रह्मह्रदं नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर्ब्रह्मणो लोकं यत्राक्रूरोऽध्यगात् पुरा
नन्दादयस्तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्रच्छन्दोभिः स्तूयमानं सुविस्मिताः
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे अष्टाविंशोऽध्यायः
ज्ञानं विवेको निगमस्तपश्च प्रत्यक्षमैतिह्यमथानुमानम् । आद्यन्तयोरस्य यदेव केवलं कालश्च हेतुश्च तदेव मध्ये
यथा हिरण्यं स्वकृतं पुरस्तात् पश्चाच्च सर्वस्य हिरण्मयस्य । तदेव मध्ये व्यवहार्यमाणं नानापदेशैरहमस्य तद्वत्
विज्ञानमेतत् त्रियवस्थमङ्ग गुणत्रयं कारणकार्यकर्तृ । समन्वयेन व्यतिरेकतश्च येनैव तुर्येण तदेव सत्यम्
न यत्पुरस्ताद् उत यन्न पश्चान् मध्ये च तन्न व्यपदेशमात्रम् । भूतं प्रसिद्धं च परेण यद् यत् तदेव तत् स्यादिति मे मनीषा